बच्चो ! श्रीमद्भगवद्गीता हम भारतीयों का पवित्रतम ग्रंथ है। इसमें आत्मविषयक ज्ञान एवं परमात्मा के प्रेम की अविरल धारा प्रवाहित होती है। श्री वेद व्यास जी द्वारा रचित महाभारत ग्रंथ के भीष्मपर्व का यह अंश है । युद्धक्षेत्र में कायरता को प्राप्त, युद्धविमुख अर्जुन को देखकर श्रीकृष्ण उन्हें आत्म स्मृति एवं परमात्म ज्ञान का परिचय देकर उन्हें युद्ध करने की प्रेरणा देते हैं। अविनाशी आत्मा और परमात्मा का ज्ञान प्राप्त कर मनुष्य आत्म विकास कर आत्मोन्नति करता है। प्रस्तुत पाठ में गीता के ही ज्ञानवर्द्धक श्लोक लिए गए हैं। विद्यार्थी अवश्य ही उन्हें पढ़कर लाभान्वित होंगे।
(क) कुरुक्षेत्रे श्रीगीता – जयन्ती – महोत्सवः आचरितः। तत्र बहवः जनाः अगच्छन् । रमेशः अपि स्वजनकेन सह तत्र गतवान्। कथावाचक : गीतायाः विषये वर्णयति स्म –
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः । या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ (पृष्ठ 49)
सरलार्थ-
कुरुक्षेत्र में श्रीगीता – जयन्ती – महोत्सव किया गया। वहाँ बहुत लोग गए। रमेश भी अपने पिता के साथ वहाँ गया। कथावाचक गीता के विषय में वर्णन कर रहे थे-
गीता सुन्दर रूप से गाई जानी चाहिए, जो स्वयं विष्णु भगवान के मुख कमल से निकली । अन्य शास्त्रों के विस्तार से क्या ?
(ख) इदं श्रुत्वा रमेशः पितरम् अपृच्छत् – “पितः ! गीता का ? कथं सुगीता कर्तव्या?” पिता – पुत्र! बहुभ्यः वर्षेभ्यः पूर्वं कुरुक्षेत्रे कौरवाणां पाण्डवानां च मध्ये सङ्ग्रामः अभवत्।
तस्मिन् युद्धे स्वबान्धवान् दृष्ट्वा अर्जुन : युद्धं कर्तुं न इच्छति स्म। तदा भगवान् श्रीकृष्णः युद्धपराङ्मुखम् अर्जुनं कर्तव्यपालनार्थम् उपदिष्टवान् । श्रीकृष्णस्य उपदेश: एव श्रीमद्भगवद्गीता अस्ति। गीतायाम् अमृततुल्याः उपदेशाः सन्ति । (पृष्ठ 49)
सरलार्थ – यह सुनकर रमेश ने पिता से पूछा- “पिताजी! गीता क्या है? कैसे सुन्दर गान करना चाहिए?” पिता- पुत्र! बहुत वर्षों पहले कुरुक्षेत्र में कौरवों और पाण्डवों के मध्य सङ्ग्राम हुआ। उस युद्ध में अपने बन्धुओं को देखकर अर्जुन युद्ध करना नहीं चाहता था। तब भगवान् श्रीकृष्ण ने युद्ध से विमुख अर्जुन को कर्तव्यपालन के लिए उपदेश दिया। श्रीकृष्ण का उपदेश ही श्रीमद्भगवद् गीता है। गीता में अमृत समान उपदेश हैं।
(ग) रमेश :- तर्हि सुगीता कर्तव्या इत्यस्य कः आशय : ? पिता- अस्य आशयः अस्ति यत् गीतायाः अभ्यासः सम्यक् रूपेण करणीयः । गीता उत्तमभावेन पठितव्या । कार्यक्षेत्रे जीवनक्षेत्रे च गीतायाः उपदेशाः अनुपालनीयाः । अस्मिन् पाठे वयं श्रीमद्भगवद्गीताया: काँश्चन श्लोकान् पठामः । वयं श्लोकान् मिलित्वा गायामः अपि । (पृष्ठ 50)
सरलार्थ :
रमेश – तो सुन्दर गान करना चाहिए, इसका क्या तात्पर्य है? पिता – इसका तात्पर्य है कि गीता का अभ्यास अच्छे रूप से करना चाहिए। गीता उत्तम भाव से पढ़ी जानी चाहिए । कार्यक्षेत्र और जीवनक्षेत्र में गीता का उपदेश पालन करने योग्य है। इस पाठ में हम श्रीमद्भगवद्गीता के कुछ श्लोकों को पढ़ते हैं। हम श्लोकों को मिलकर गाते भी हैं।
(घ) दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥१॥
पदच्छेदः – दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीत- -राग-भय-क्रोधः स्थितधीः मुनिः उच्यते । (पृष्ठ 50)
अन्वयः-
दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीत – राग-भय-क्रोधः मुनिः स्थितधीः (इति) उच्यते ।
सरलार्थ – दुःखों में अविचलित मन वाला, सुखों में आसक्ति रहित, वासना, भय, क्रोध से रहित स्थिर बुद्धि वाला मुनि कहा जाता है।
भावार्थ:- यः मनुष्यः आपत्कालेषु उद्वेगं न अनुभवति । यः सुखप्राप्तये अपि निस्पृहः (इच्छारहितः ) भवति । यः इच्छा, आसक्तिः, भयः, इत्येतेभ्यः : मुक्तः भवति । सः मौनी पुरुषः स्थितप्रज्ञः भवति ।
क्रोधः,
अर्थ – जो मनुष्य आपत्तिकाल में उद्वेग अनुभव नहीं करता है। जो सुख प्राप्ति में भी आसक्ति रहित होता है। जो इच्छा, भय, क्रोध इत्यादि से मुक्त होता है वह मौनी पुरुष ‘स्थितप्रज्ञ’ होता है।
(ङ) क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥२॥
पदच्छेदः- क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशात् प्रणश्यति । (पृष्ठ 50)
अन्वयः – क्रोधात् सम्मोहः भवति । सम्मोहात् स्मृतिविभ्रमः (भवति)। स्मृतिभ्रंशात् बुद्धिनाश: (भवति) । बुद्धिनाशात् (जनः) प्रणश्यति ।
सरलार्थ – क्रोध से सम्मोह होता है। सम्मोह से स्मृति का नाश। स्मृति के नाश से बुद्धि का नाश (होता है) बुद्धि नाश से (मनुष्य) नष्ट हो जाता है।
भावार्थः- मानवस्य यदा क्रोधः भवति तदा क्रोधात् अविवेकः उत्पद्यते। अविवेकात् आत्मानं विस्मरति । किं योग्यं किञ्च अयोग्यम् इति अविचिन्त्य क्रोधात् व्यामोहं प्राप्नोति । यदा अधिकः व्यामोहः भवति तदा मनुष्यस्य स्मृतिः निष्क्रिया नष्टा च भवति। स्मृतेः नाशात् बुद्धिः नश्यति । बुद्धेः नाशात् सः मनुष्यः विनाशं प्राप्नोति।
अर्थ- मनुष्य को जब क्रोध होता है तब क्रोध से अविवेक उत्पन्न होता है। अविवेक से स्वयं को भूलता है। क्या योग्य और क्या अयोग्य ऐसा न सोचकर क्रोध से विभ्रम को प्राप्त होता है। जब अधिक विभ्रम होता है तब मनुष्य की स्मृति निष्क्रिय और नष्ट होती है। स्मृति के नाश से बुद्धि नष्ट हो जाती है। बुद्धि के नाश से मनुष्य विनाश को प्राप्त होता है।
(च) तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥३॥
पदच्छेदः- तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनः तत्त्वदर्शिनः। (पृष्ठ 51 )
अन्वयः – तद् प्रणिपातेन सेवया परिप्रश्नेन विद्धि, ते तत्त्वदर्शिनः ज्ञानिनः ज्ञानम् उपदेक्ष्यन्ति ।
सरलार्थ- उस (ज्ञान को) प्रणाम के द्वारा, सेवा से, प्रश्नों के द्वारा जान। वे तत्त्वदर्शी ज्ञानी ( तुझे ) ज्ञान का उपदेश देंगे।
भावार्थ:- भगवान् श्रीकृष्ण : अर्जुनम् उपदिशति – हे अर्जुन ! भवान् गुरोः समीपं गत्वा यथार्थज्ञानं प्राप्तुं प्रयासं करोतु । भवान् विनीत : जिज्ञासुः च भूत्वा गुरोः सेवां करोतु । तत्त्वज्ञानी गुरु: भवते ज्ञानं प्रदास्यति। यतः ये सत्यस्य दर्शनं कृतवन्तः ते एव यथार्थज्ञानिनः भवन्ति ।
अर्थ – भगवान श्रीकृष्ण अर्जुन को उपदेश देते हैं – हे अर्जुन ! आप गुरु के समीप जाकर यथार्थ ज्ञान प्राप्त करने के लिए प्रयास करो। आप विन्रम और जिज्ञासु होकर गुरु की सेवा करो । तत्त्वज्ञानी गुरु आपको ज्ञान देंगे। क्योंकि जिन्होंने सत्य के दर्शन किए हैं। वे ही यथार्थ ज्ञानी होते हैं।
(छ) श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥४॥
पदच्छेदः – श्रद्धावान् लभते ज्ञानम् तत्परः संयतेन्द्रियः ज्ञानम् लब्ध्वा पराम् शान्तिम् अचिरेण अधिगच्छति । (पृष्ठ 52 )
अन्वयः- संयतेन्द्रियः तत्परः श्रद्धावान् (मनुष्यः) ज्ञानं लभते । तथा ज्ञानं लब्ध्वा (सः) अचिरेण परां शान्तिम् अधिगच्छति।
सरलार्थ – इन्द्रियों को संयमित रखने वाला, तत्पर श्रद्धावान् (मनुष्य) ज्ञान प्राप्त करता है। तथा ज्ञान प्राप्त करके शीघ्रता से परम शान्ति को प्राप्त करता है ।
भावार्थः- यः श्रद्धालुः मनुष्यः दिव्यज्ञानं प्राप्तुं निरन्तरं प्रयासं करोति। तथैव यः मनुष्यः इन्द्रियाणि स्ववशे कृतवान्। सः मनुष्यः दिव्यज्ञानं प्राप्स्यति । तादृशं दिव्यं ज्ञानं प्राप्य सः पुरुषः जीवने अनन्तम् आनन्दं प्राप्नोति ।
अर्थ – जो श्रद्धालु मनुष्य दिव्य ज्ञान प्राप्त करने के लिए निरन्तर प्रयास करता है। वैसे ही मनुष्य ने इन्द्रियों को अपने वश में किया है। वह मनुष्य दिव्य ज्ञान प्राप्त करेगा। वैसा दिव्य ज्ञान प्राप्त कर वह पुरुष जीवन में अनन्त आनन्द प्राप्त करता है।
(ज) अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥५ ॥
पदच्छेदः- अद्वेष्टा सर्वभूतानां मैत्रः करुणः एव च निर्ममः निरहङ्कारः समदुःखसुखः क्षमी । (पृष्ठ 52)
अन्वयः- (यः) सर्वभूतानाम् अद्वेष्टा मैत्रः च करुणः एव निर्ममः निरहङ्कारः समदुःखसुखः क्षमी (अस्ति, सः एव मम प्रियः भवति ।)
सरलार्थ – (जो) सब प्राणियों के द्वेष से रहित, मित्र भाव से युक्त, और करुणावान् है, ममतारहित, अहङ्कार रहित, दुःख सुख में समान और क्षमाशील है।
भावार्थ:- हे अर्जुन! यः कस्यामपि परिस्थितौ विचलितः न भवति। यः ईर्ष्यारहितः समस्तप्राणिनां कृते मित्रभावयुतः दयालुः च भवति। यः ममत्वरहितः, अहङ्कारविहीनः सुखदुःखेषु समभावयुतः क्षमाशीलः च भवति तादृशः पुरुषः भगवतः अत्यन्तं प्रियः भक्तः भवति ।
अर्थ- हे अर्जुन! जो किसी भी परिस्थिति में विचलित नहीं होता। वह ईर्ष्या रहित समस्त प्राणियों के लिए मित्र भाव से युक्त और दयालु होता है। जो ममत्व रहित, अहङ्कार विहीन, सुख और दुख में समान भाव से युक्त और क्षमाशील होता है वैसा पुरुष भगवान का अत्यन्त प्रिय भक्त होता है।
(झ) सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिय मद्भक्तः स मे प्रियः ॥ ६॥
पदच्छेदः- सन्तुष्टः सततम् योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः यः मद्भक्तः सः मे प्रियः । (पृष्ठ 53)
अन्वयः- यः योगी सततं सन्तुष्टः यतात्मा दृढनिश्चयः मयि (च) अर्पितमनोबुद्धि: (भवति) सः मद्भक्तः मे प्रियः (भवति)।
सरलार्थ – जो योगी निरन्तर सन्तुष्ट, आत्मसंयमी, दृढनिश्चयी मुझ में मन, बुद्धि अर्पित करने वाला (है) वह भक्त मेरा प्रिय (है)।
भावार्थ- हे पार्थ! यः निरन्तरं सन्तुष्टः भवति। अर्थात् कस्यापि वस्तुनः अभावात् कदापि असन्तुष्टः न भवति । यः मनः इन्द्रियाणि च विजित्य संयमी भवति । यः स्वबुद्ध्या परमेश्वरस्य स्वरूपं स्थिरीकरोति। यश्च मनः बुद्धिं च ईश्वरे समर्पयति । सः मनुष्यः मम अतीव प्रियतमः भक्तः भवति।
अर्थ – हे पार्थ! जो निरन्तर सन्तुष्ट होता है। अर्थात् किसी भी वस्तु के अभाव से कभी भी असन्तुष्ट नहीं होता । जो मन और इन्द्रियों को जीतकर संयमी होता है। जो अपनी बुद्धि से परमेश्वर का स्वरूप स्थिर करता है । और जो मन और बुद्धि ईश्वर में समर्पित करता है। वह मनुष्य मेरा अतीव प्रियतम भक्त होता है।

(ञ) यस्मान्नोद्विजते लोकः लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ ७ ॥
पदच्छेदः- यस्मात् न उद्विजते लोक: लोकात् न उद्विजते च यः हर्ष-अमर्ष-भय-उद्वेगैः मुक्तः यः सः च मे प्रियः । (पृष्ठ 53)
अन्वयः यस्मात् लोकः न उद्विजते, यः च लोकात् न उद्विजते, य: च हर्ष – अमर्ष-भय- -उद्वेगै: मुक्तः सः मे प्रियः (भवति)।
सरलार्थ – जिससे संसार उद्विग्न नहीं होता, जो संसार से उद्विग्न नहीं होता, और जो हर्ष, ईर्ष्या, भय और उद्वेगों ( अशान्ति) से मुक्त है, वह मेरा प्रिय होता है।
भावार्थ:- हे अर्जुन! यस्मात् मनुष्यात् मनुष्यः प्राणी वा उद्विग्नः न भवति । यश्च मनुष्यः अन्यस्मात् जनात् प्राणिनः वा उद्विग्नः न भवति । यश्च हर्षेण, ईर्ष्यया, भीत्या, चिन्तया च रहितः भवति । सः मम अतीव प्रियः भक्तः भवति ।
अर्थ – हे अर्जुन! जिस मनुष्य से कोई भी मनुष्य या प्राणी उद्विग्न नहीं होता और जो मनुष्य अन्य जन या प्राणी से उद्विग्न नहीं होता और जो हर्ष, ईर्ष्या, भय और चिन्ता से रहित होता है। वह मेरा अतीव प्रिय भक्त होता है ।
(ट) अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥८॥
पदच्छेद: – अनुद्वेगकरम् वाक्यम् सत्यम् प्रियहितम् च यत् स्वाध्यायाभ्यसनम् च एव वाङ्मयम् तपः उच्यते। (पृष्ठ 54).
अन्वयः यद् वाक्यम् अनुद्वेगकरं सत्यं प्रियहितं च (तथा) स्वाध्यायाभ्यसनं च एव वाङ्मयं तपः उच्यते।
सरलार्थ- जो वाक्य उद्वेग रहित, सत्य, प्रिय और हितकारी है। स्वाध्याय और अभ्यास ही वाणी के तप कहे जाते हैं।
भावार्थ:- यत् अनुद्वेगकरं (भषणम् उद्वेगं न जनयेत्), सत्यं, प्रियकरं, हितकरं, च भाषणं स्यात्, तत् वाङ्मयं तपः इति कथ्यते। शास्त्रादीनां स्वाध्यायः, तेषाम् अभ्यासः च वाचिकं तपः कथ्यते। तथा स्वाध्याय : अभ्यासश्चापि यथाविधि वाङ्मयं तपः इति उच्यते। अतः विद्यार्थिभिः स्मरणीयं यत्- प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः, तस्मात् तदेव वक्तव्यं वचनेन का दरिद्रता ।
अर्थ- जो वाक्य उद्वेग नहीं पैदा करता, सत्य प्रिय करने वाला और हितकारी भाषण हो, वह वाणी का तप कहा जाता है। शास्त्रादि में स्वाध्याय और उनका अभ्यास वाचिक तप कहा जाता है। तथा स्वाध्याय और अभ्यास भी उसी विधि से वाणी का तप कहा जाता है अतः विद्यार्थियों द्वारा स्मरणीय है कि – ‘प्रिय वाक्य बोलने से सभी प्राणी सन्तुष्ट होते हैं। इसलिए वैसा ही (प्रिय) बोलना चाहिए, (प्रिय) बोलने में क्या दरिद्रता ( कंजूसी)।