Class 8 Sanskrit Chapter 9:Hindi Translation– कोऽरुक्? कोऽरुक्? कोऽरुक्?

एक बार भगवान धन्वन्तरि पृथ्वीलोक पर चिकित्सा व्यवस्था के विषय में जानने के लिए एक सुन्दर तोते के रूप में भ्रमण करने लगे। वे किसी भी वैद्य के घर के पास स्थित वृक्ष पर बैठकर प्रश्न करते थे – ‘स्वस्थ कौन है ? ‘ परन्तु उन्हें कहीं से भी उत्तर प्राप्त नहीं हुआ।
अन्त में वे वाग्भट आचार्य की कुटिया में पहुँचे और एक वृक्ष पर बैठकर गुनगुनाने लगे – ‘ कोऽरुक्?’ वाग्भट ने शीघ्र कहा – ‘हितभुक्, मितभुक्, ऋतुभुक्’। यह सुनकर धन्वन्तरि अतीव प्रसन्न हुए और उन्हें आशीर्वाद देकर चले गए।

तब वाग्भट के शिष्य उनसे तीनों शब्दों का अर्थ पूछने लगे। वाग्भट ने बताया कि हितकर पदार्थों को खाने वाला ‘हितभुक्’ है तथा संयमित भोजन करने वाला ‘मितभुक्’ है। इसी प्रकार ऋतु के अनुसार भोजन करने वाला ‘ऋतुभुक्’ है। । इन तीनों नियमों का पालन करने वाला स्वस्थ रहता है।

 

Class 8 Sanskrit Chapter 9 Hindi Translation कोऽरुक् कोऽरुक् कोऽरुक् Summary 1

(क) अम्ब! महती बुभुक्षा बाधते, शीघ्रं भोजनं परिवेषयतु ।
वत्से, भोजनम् अत्युष्णम् अस्ति किञ्चित् प्रतीक्षस्व।
उष्णं भोजनं किमर्थं न ददाति ?
वत्से! मुखे दाहः भवेत्, अपि च ‘ अत्युष्णं भोजनं हितकरं न भवति’ इति आयुर्वेदस्य उपदेशः ।
अम्ब! आयुर्वेदे बहवः आहारनियमाः सन्ति इति अस्माकं शिक्षकः अपि बोधयति ।

सत्यम् उक्तं वत्से! आहारविषये एक : रोचक: प्रसङ्गः अस्ति। युवाम् इच्छथ चेत् श्रावयामि ।
अस्तु अम्ब! यावत् भोजनं भोक्तुं योग्यं भवति
तावत् तं श्रावयतु।
अस्तु, श्रूयताम्। (पृष्ठ 97)

सरलार्थ-

  • हे माता ! अत्यधिक भूख सता रही है। शीघ्र भोजन परोस दो।
  • पुत्री ! भोजन अत्यधिक गर्म है। कुछ प्रतीक्षा करो। गर्म भोजन क्यों नहीं देती हो?
  • पुत्री ! मुँह में जलन होगी और अत्यधिक गर्म भोजन हितकर भी नहीं होता है – यह आयुर्वेद का उपदेश है।
  • हे माता ! आयुर्वेद में अनेक आहार नियम हैं – ऐसा हमारे अध्यापक जी भी बताते हैं ।
  • पुत्री ! (तुमने) ठीक कहा । आहार के विषय में एक रोचक प्रसंग है। यदि तुम चाहती हो तो सुनाती हूँ ।
  • हाँ, माता ! जब तक भोजन खाने योग्य होता है तब तक उसे सुनाओ।
  • हाँ तो सुनिए ।

(ख) ‘भारतवर्षे वैद्या: विभिन्नानां
व्याधीनां शमनं कथं कुर्वन्ति’ इति
ज्ञातुं पुरा भगवान् धन्वन्तरिः मनोहरं
शुकरूपं धृत्वा प्रतिग्रामम् अभ्रमत्।
भ्रमणकाले सः बहूनां प्रख्यातवैद्यानां
भवनपार्श्वस्थे वृक्षै उपविश्य
‘कोsरुक्’ ‘कोऽरुक्’ ‘कोऽरुक्’
इति ध्वनिम् अकरोत् । किन्तु खगस्य
‘कोऽरुक्’ इति शब्दं प्रति कस्यापि
अवधानं नासीत्। (पृष्ठ 98)

सरलार्थ
भारतवर्ष में वैद्य अनेक रोगों की शान्ति किस प्रकार करते हैं – यह जानने के लिए पहले समय में भगवान धन्वन्तरि सुन्दर तोते का रूप धारण करके प्रत्येक गाँव घूमने लगे। भ्रमणकाल में वे अनेक प्रख्यात वैद्यों के घर के पास में स्थित वृक्ष पर बैठकर ‘कौन निरोग ?, कौन निरोग ?’ कौन निरोग ? यह आवाज करने लगे। परन्तु पक्षी के ‘कौन नीरोग’ इस ध्वनि के प्रति किसी का भी ध्यान न था ।

(ग) अन्ते सः वैद्यस्य वाग्भटस्य कुटीरसमीपं गतवान्। तत्र विशाले प्राङ्गणे स्थितं पुष्पतरुम् आरुह्य मधुरया गिरा ‘कोऽरुक्’ ‘कोऽरुक्’ ‘कोऽरुक्’ इति शब्दम् अकरोत्। मधुरां वाणीं श्रुत्वा चिकित्सानिरतः वाग्भटः प्राङ्गणम् आगत्य सर्वासु दिक्षु अपश्यत् । क्षणात् वाग्भटः मनोहरं तं शुकम् अपश्यत्। सार्थकं मानुषध्वनिं कुर्वन्तं शुकं दृष्ट्वा विस्मितः वाग्भटः चिन्तितवान्–‘”नायं लौकिकः खगः । एष: निश्चयेन कश्चन देवविशेषः अस्ति । सः झटिति तस्मै विहगाय मधुराणि फलानि समर्पितवान् परन्तु सः खगः फलानि न गृहीत्वा पुनरपि तथैव ‘कोऽरुक्’ ‘कोऽरुक्’ ‘कोऽरुक्’ इति प्रश्नस्वरेण शब्दमकरोत् । अथ वैद्यः वाग्भटः अचिन्तयत् यत् यावत् खगः स्वप्रश्नानाम् उत्तराणि न प्राप्नोति तावत् अयं भोजनं न वाञ्छति इति। ततः सः अचिरादेव सूत्ररूपाणि त्रीणि उत्तराणि प्राददात् ‘हितभुक्’ ‘मितभुक्’ ‘ऋतुभुक्’ इति । समुचितम् उत्तरं श्रुत्वा अत्यन्त प्रीतः सः शुकः वाग्भटेन अर्पितानि फलानि खादितवान्। (पृष्ठ 98-99)

सरलार्थ – अंत में वैद्य वाग्भट की कुटिया के समीप आया। वहाँ विशाल आँगन में स्थित एक पुष्प तरु पर चढ़कर मधुर वाणी से ‘कौन नीरोग ?’ यह शब्द करने लगा। मधुर वाणी को सुनकर चिकित्सा में लीन वाग्भट ने आँगन में आकर सभी दिशाओं में देखा । पल भर में वाग्भट ने सुन्दर शुक को देखा। अर्थवान् मनुष्य की आवाज करते हुए तोते को देखकर आश्चर्यपूर्ण वाग्भट सोचने लगे – यह सामान्य पक्षी नहीं है। यह निश्चय ही कोई देवता विशेष है। उसने शीघ्र उस पक्षी को मधुर फल दिए, परन्तु उस पक्षी ने फलों को ग्रहण न करके पुन: उसी प्रकार ‘कौन नीरोग ?’ इस प्रकार प्रश्न के रूप में शब्द किया। तब वैद्य वाग्भट सोचने लगा-कि जब तक पक्षी अपने प्रश्नों का उत्तर प्राप्त नहीं कर लेता है, तब तक यह भोजन नहीं चाहता। तब उसने शीघ्र सूत्ररूप में तीन उत्तर दिए – उचित खाने वाला, संयमित खाने वाला और ऋतु के अनुसार खाने वाला। उचित उत्तर सुनकर अत्यन्त प्रसन्न उस तोते ने वाग्भट के द्वारा अर्पित फलों को खा लिया।

(घ) ततः शुकरूपः धन्वन्तरिः वाग्भटम् उक्तवान्-“वत्स ! अहं धन्वन्तरिः अस्मि । उत्तमस्य वैद्यस्य अन्वेषणाय भारतवर्षे सर्वत्र परिभ्रमन् अत्र समागतः । तव उत्कृष्टेन आयुर्वेदज्ञानेन अहम् अतीव सन्तुष्टः अस्मि । त्वम् अवश्यमेव आयुर्वेद-अष्टाङ्गविचार – सारभूतं तन्त्रं विरचये: एतद् उक्त्वा सः अन्तर्हितः। (पृष्ठ 99)

सरलार्थ –
तब तोते के रूप में धन्वन्तरि वाग्भट से कहने लगे-पुत्र ! मैं धन्वन्तरि हूँ । उत्तम वैद्य की खोज में भारतवर्ष में सभी जगह घूमता हुआ यहाँ आया हूँ। तुम्हारे श्रेष्ठ ज्ञान से मैं अत्यधिक संतुष्ट हूँ। तुम अवश्य आयुर्वेद के आठों अंगों के सारभूत शास्त्र की रचना करो – यह कह कर वह ओझल हो गया।

(ङ) एतत् सर्वं दूरात् पश्यन्तः विस्मिताः शिष्याः आचार्यवाग्भटस्य समीपम् आगत्य अपृच्छन्–“गुरुवर ! शुकः ‘कोsरुक्’ ‘कोऽरुक्’ ‘कोऽरुक्’ इति उक्तवान्, तस्य कोऽर्थः? अपि च भवान् किम् उत्तरं दत्तवान्?” तदा वाग्भटः छात्राणां जिज्ञासाम् उपशमयन् कथयति –“छात्राः, शृणुत ! एषः शुकः वदति यत् कः अरुक् अर्थात् कः स्वस्थः नीरोगः वा वर्तते’? तदा मया उक्तम्– (पृष्ठ 99)

सरलार्थ
यह सब दूर से देखते हुए आश्चर्यपूर्ण शिष्यों ने आचार्य वाग्भट के समीप आकर पूछा- गुरुवर ! तोते ने ‘कौन नीरोग’ यह कहा। उसका क्या अर्थ है? और आपने क्या उत्तर दिया? तब वाग्भट ने छात्रों की जिज्ञासा को शांत करते हुए कहा – हे छात्रो ! सुनो। यह तोता कहता है – कौन नीरोग ? कौन स्वस्थ है? तब मैंने कहा-

(च) “यः हितभुक्, मितभुक्, ऋतुभुक् च सः एव सर्वदा स्वस्थः भवति।” छात्राः पुनः जिज्ञासया अपृच्छन् आचार्य ! ‘हितभुक्, मितभुक्, ऋतुभुक्’ इति एतेषां कः आशयः ?” वाग्भटः वदति – “ शिष्याः ! महर्षेः चरकस्य नाम भवन्तः श्रुतवन्तः स्युः। सः हितभुक्-विषये कथयति-

तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते ।
अजातानां विकाराणामनुत्पत्तिकरं च यत्॥१॥

अर्थात् यस्य आहारस्य सेवनेन स्वास्थ्यस्य रक्षणं भवेत्, न जातानाम् अर्थात् अनुत्पन्नानां विकाराणाम् उत्पत्तिः न भवेत्, तादृशः आहारः सेवनीयः । (पृष्ठ 99-100)

सरलार्थ
जो उचित खाता है, संयमित खाता है और ऋतु के अनुसार खाता है। वह ही सदा स्वस्थ रहता है। छात्रों ने पुन: जिज्ञासा से पूछा- आचार्य ! हितभुक्, मितभुक्, ऋतुभुक् इनका क्या भाव है? वाग्भट कहने लगा- हे शिष्यों ! महर्षि चरक का नाम आपने सुना ही है । वह हितभुक् के विषय में कहते हैं-

(छ) श्लोकास्य पदच्छेदः अन्वयः च-

तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते ।
अजातानां विकाराणामनुत्पत्तिकरं च यत्॥१॥

पदच्छेदः – तत् च नित्यम् प्रयुञ्जीत स्वास्थ्यम् येन अनुवर्तते, अजातानाम् विकाराणाम् अनुत्पत्तिकरम् च यत् ।

अन्वयः-अजातानां विकाराणां च यत् अनुत्पत्तिकरं येन स्वास्थ्यम् अनुवर्तते च तत् नित्यं प्रयुञ्जीत । (पृष्ठ 106)

सरलार्थ-अर्थात् जिस आहार के सेवन से स्वास्थ्य की रक्षा हो और उत्पन्न न हुए विकारों की उत्पत्ति न हो। वैसा भोजन सेवन करना चाहिए ।

भावार्थः-अर्थात् यस्य आहारस्य सेवनेन स्वास्थ्यस्य रक्षणं भवेत्, न जातानाम् अर्थात् अनुत्पन्नानां विकाराणाम् उत्पत्तिः न भवेत्, तादृशः आहारः सेवनीयः । (पृष्ठ 106)

(ज) मितभुक् विषये कथयति आचार्य:-

अल्पादाने गुरूणां च लघूनां चातिसेवने।
मात्राकारणमुद्दिष्टं द्रव्याणां गुरुलाघवे ॥ २ ॥ (पृष्ठ 100)

पदच्छेदः – अल्पादाने गुरूणाम् च लघूनाम् च अतिसेवने मात्राकारणम् उद्दिष्टम् द्रव्याणाम् गुरुलाघवे। अन्वयः-गुरूणाम् (द्रव्याणाम्) अल्पादाने ( हितं भवति) लघूनां (द्रव्याणां ) च अतिसेवने ( हानि: भवति ) । गुरुलाघवे (भोजनग्रहणे) द्रव्याणां मात्रा कारणम् उद्दिष्टम् (अस्ति)।

सरलार्थ –
मितभुक् के विषय में आचार्य कहते हैं-
अर्थात् गरिष्ठ द्रव्य भी अल्पमात्रा में सेवन करने से सुपाच्य होते हैं। हल्के पदार्थ भी अधिक मात्रा में सेवन करने से हानिकर होते हैं। इसलिए ( उचित) मात्रा के अनुसार ही खाना चाहिए।

भावार्थ:- अर्थात् गरिष्ठद्रव्याणि अपि अल्मात्रं सेवनेन सुपाच्यानि भवन्ति, लघुद्रव्याणि चापि अतिमात्रं सेवनेन हानिकराणि जायन्ते। अत: मात्रानुसारम् एव खादितव्यम् ।

(झ) एवमेव ऋतुभुक् विषये उच्यते-

तस्याशिताद्यादाहारात् बलं वर्णश्च वर्धते ।
तस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्॥३॥ (पृष्ठ 100)

पदच्छेदः – तस्य अशिताद्यात् आहारात् बलम् वर्णः च वर्धते, तस्य ऋतुसात्म्यम् विदितं, चेष्टा – आहार-व्यपाश्रयम् ।
अन्वयः – तस्य (जनस्य) अशिताद्यात् आहारात् बलं वर्णः च वर्धते। तस्य चेष्टा आहारव्यपाश्रयम् ऋतुसात्म्यं विदितम् (भोक्तव्यम्) ।

सरलार्थ – अर्थात् ग्रीष्म, वर्षा, शरद्, शिशिर, हेमन्त और वसन्त-ये छह ऋतुएँ होती हैं। जो व्यक्ति ऋतुओं के अनुकूल स्वास्थ्यप्रद आहार का सेवन जानता है और उसके अनुसार करता है, उस व्यक्ति का खाया हुआ, पिया हुआ सब बल को बढ़ाने वाला, शोभा को बढ़ाने वाला, सुख बढ़ाने वाला और आयु बढ़ाने वाला होता है। इसलिए ऋतु के अनुसार खाना चाहिए। नियमित रूप से समय के अनुसार सात्त्विक भोजन आवश्यक है – यह ऋतुभुक् पद के द्वारा ज्ञात होता है। भावार्थ:- अर्थात् ग्रीष्मः, वर्षा, शरद्, शिशिरः, हेमन्तः, वसन्तः चेति षट् ऋतवः भवन्ति । यः पुरुषः ऋतूनाम् अनुकूलं स्वास्थ्यप्रदम् आहारसेवनं जानाति तदनुसारम् आचरणं च करोति तस्य जनस्य अशितम् अर्थात् भुक्तं पीतं च सर्वमपि बलवर्धकं वर्णकान्तिजनकं सुखवर्धकम् आयुर्वर्धकञ्च भवति। अतः ऋतोः अनुसारं भोक्तव्यम् इति । नियमितरूपेण समयानुसारं सात्त्विकं भोजनम् आवश्यकमिति ऋतुभुक् – पदेन ज्ञायते।” (पृष्ठ 100)

(ञ) एतत् सर्वं श्रुत्वा कश्चन छात्रः वाग्भटम् अपृच्छत्– आचार्य ! हितभुगादिविषये वयं तु ज्ञातवन्तः, किन्तु किं सः शुकः सन्तुष्टः अभवत् ”? तदा वाग्भटः शुकस्य रहस्यम् उक्तवान्–‘“प्रियशिष्याः ! अयं विहगः न सामान्यविहगः, अपि तु आयुर्वेदस्य पूज्यः देवः भगवान् धन्वन्तरिः एव स्वयं शुकरूपेण अत्र आगच्छत् । अस्माकं कृते संक्षेपेण स्वास्थ्यरक्षणाय शुकरूपेण सन्देशं च प्रदत्तवान्, भवन्तः अपि शृण्वन्तु स्मरन्तु च-

व्यायामः प्रातरुत्थाय नित्यं दन्तविशोधनम् ।
स्वच्छजलेन सुस्नानं, बुभुक्षायाञ्च भोजनम् ॥४॥

अस्माकम् ऋषयः नित्यं प्रार्थनाम् अपि कुर्वन्ति । वयमपि स्मराम:-

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्॥५ ॥ (पृष्ठ 101)

सरलार्थ – यह सब सुनकर किसी छात्र ने वाग्भट से पूछा-‘आचार्य ! हितभुक् आदि के विषय में हमने तो जान लिया है, परन्तु क्या वह तोता भी सन्तुष्ट हो गया?’ तब वाग्भट तोते का रहस्य बताने लगा- ‘प्रिय शिष्यो ! यह पक्षी सामान्य पक्षी नहीं है, अपितु आयुर्वेद के पूज्य भगवान धन्वन्तरि ही स्वयं तोते के रूप में यहाँ आए थे।’ हमारे लिए संक्षेप में, स्वास्थ्य की रक्षा के लिए सूत्र रूप में संदेश दे दिया है। आप भी सुनें और स्मरण करें-

पदच्छेदः- :-व्यायामः प्रातः उत्थाय नित्यम् दन्तविशोधनम् स्वच्छजलेन सुस्नानम् बुभुक्षायाम् च भोजनम्।

अन्वयः – नित्यं प्रातः उत्थाय व्यायाम : ( करणीयः) दन्तविशोधनं (कर्त्तव्यम्) स्वच्छजलेन सुस्नानं (कार्यम्) बुभुक्षायां (जातायां) भोजनं च (कर्त्तव्यम्) ।

सरलार्थ – नित्य प्रातः उठकर व्यायाम करना चाहिए । तब दाँतों की सफाई करनी चाहिए। साफ जल से स्नान करना चाहिए। भूख लगने पर भोजन करना चाहिए।

भावार्थ:-प्रतिदिनं प्रातः एव जागरणं कुर्यात्, ततः परं व्यायामः करणीयः। पुनः सम्यक्तया दन्तमार्जनं करणीयम् । स्वच्छजलेन उत्तमरीत्या स्नानं कर्त्तव्यम् । यदा उदरे बुभुक्षा भवति तदा एव हितकरं स्वल्पं तथा ऋत्वनुकूलं भोजनं ग्रहणीयम्। (पृष्ठ 108)

हमारे ऋषि नित्य प्रार्थना करते हैं-

पदच्छेदः – सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत्।

अन्वयः – सर्वे सुखिनः भवन्तु, सर्वे निरामयाः सन्तु । सर्वे भद्राणि पश्यन्तु, कश्चिद् दुःखभाक् मा भवेत्।

सरलार्थ – संसार में सभी सुखी हों सभी नीरोग हों। सभी कल्याण को प्राप्त करें। कोई दुःखी न हो।

भावार्थ:- संसारे सर्वे सुखेन निवसेयुः ते नीरोगिणः च भवेयुः । ते परस्परं समभावेन उत्तमविचारैः च विचारयेयुः । तेषां कल्याणं भवेत्। कश्चिद् अपि जनः कदापि दुःखं न प्राप्नुयात् । वस्तुतः सर्वे नियमित हितकर – भोजनेन रोगमुक्ता: भवेयुः । (पृष्ठ 108)

Leave a Comment