अभ्यास-कार्याणि (Solutions)
१. पूर्णवाक्येन उत्तरत (Answer in complete sentences)
-
(क) लोकः कस्य आचरणम् अनुकरोति?
उत्तरम्: लोकः श्रेष्ठस्य जनस्य आचरणम् अनुकरोति।
-
(ख) कीदृशी वाणी वक्तव्या?
उत्तरम्: सत्यपूता वाणी वक्तव्या।
-
(ग) लक्ष्मीः कम् उपैति?
उत्तरम्: लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति।
-
(घ) उत्तमजनाः कार्यं प्रारभ्य किं न कुर्वन्ति?
उत्तरम्: उत्तमजनाः कार्यं प्रारभ्य विघ्नैः प्रतिहन्यमानाः अपि न परित्यजन्ति।
-
(ङ) धर्मस्य लक्षणानि कानि?
उत्तरम्: धृतिः, क्षमा, दमः, अस्तेयम्, शौचम्, इन्द्रियनिग्रहः, धीः, विद्या, सत्यम्, अक्रोधः च इति दश धर्मस्य लक्षणानि सन्ति।
-
(च) सकलाः कलाः कस्मात् सिध्यन्ति?
उत्तरम्: सकलाः कलाः अभ्यासात् सिध्यन्ति।
-
(छ) सम्पदः कं वृणते?
उत्तरम्: सम्पदः विमृश्यकारिणं स्वयं वृणते।
२. रिक्तस्थानानि पूरयत (Fill in the blanks)
-
(क) सन्तः परीक्ष्य अन्यतरद् भजन्ते।
-
(ख) दैवं निहत्य कुरु पौरुषम् आत्मशक्त्या।
-
(ग) स यत् प्रमाणं कुरुते (लोकस्तदनुवर्तते)।
-
(घ) धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्।
३. प्रश्ननिर्माणं कुरुत (Formulate questions)
-
(क) कैः विघ्नभयेन कार्यं न प्रारभ्यते? (मूलवाक्ये: नीचैः)
-
(ख) सकलाः कलाः कस्मात् सिध्यन्ति? (मूलवाक्ये: अभ्यासात्)
-
(ग) कीदृशं जलं पिबेत्? (मूलवाक्ये: वस्त्रपूतं)
-
(घ) लक्ष्मीः कम् उपैति? (मूलवाक्ये: पुरुषसिंहम्)
-
(ङ) के परीक्ष्य अन्यतरद् भजन्ते? (मूलवाक्ये: सन्तः)
-
(च) काम् सहसा न विदधीत? (मूलवाक्ये: क्रियां)
४. श्लोक-आधारित प्रश्नाः (Questions based on Verse 1)
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेत् वाचं मनः पूतं समाचरेत् ॥
| प्रश्नः | उत्तरम् |
| (क) प्रथमं क्रियापदं किम्? |
न्यसेत् |
| (ख) कं न्यसेत्? |
पादम् |
| (ग) कीदृशं पादं न्यसेत्? |
दृष्टिपूतम् |
| (घ) द्वितीयं क्रियापदं किम्? |
पिबेत् |
| (ङ) किं पिबेत्? |
जलम् |
| (च) कीदृशं जलं पिबेत्? |
वस्त्रपूतम् |
| (छ) तृतीयं क्रियापदं किम्? |
वदेत् |
| (ज) कां वदेत्? |
वाचम् |
| (झ) कीदृशीं वाणीं वदेत्? |
सत्यपूताम् |
| (ञ) चतुर्थं क्रियापदं किम्? |
समाचरेत् |
| (ट) कथं समाचरेत्? |
मनःपूतम् |
५. भावार्थेषु रिक्तस्थान-पूर्तिः (Fill in blanks in the explanation)
(क) लक्ष्मीः प्रयत्नशीलस्य पराक्रमिणः पुरुषस्य समीपं स्वयम् आगच्छति। कापुरुषाः तु ‘विधिः एव बलीयान्’ इति वदन्ति। पौरुषेण परिस्थितिम् अतिक्रम्य कार्याणि साधयन्ति ते एव धीराः । प्रयत्नं कृत्वा अपि यदि लक्ष्यं न प्राप्तं तर्हि तत्र दोषः नास्ति खलु।
(ख) पुरातनम् अस्ति इति कारणेन किमपि वस्तु तत्त्वं व्यक्तित्वं वा समीचीनं भवेदेव इति नियमः नास्ति। तथैव नूतनम् अस्ति इति कारणेन दोषरहितं भवेत् इत्यपि नियमः नास्ति। येषां बुद्धिः पक्वा अस्ति ते परीक्षण-निरीक्षणानन्तरम् एव उत्तमं स्वीकुर्वन्ति। किन्तु अज्ञानाः अन्येषाम् अभिप्रायं श्रुत्वा तदनुसारेण प्रवर्तन्ते।
८. सन्धिविच्छेदं कुरुत (Sandhi Split)
-
(क) दमोऽस्तेयम् = दमः + अस्तेयम्
-
(ख) पुराणमित्येव = पुराणम् + इति + एव
-
(ग) पुनरपि = पुनः + अपि
-
(घ) चोत्तमजनाः = च + उत्तमजनाः
-
(ङ) लोकस्तदनुवर्तते = लोकः + तत् + अनुवर्तते
-
(च) परीक्ष्यान्यतरद्भजन्ते = परीक्ष्य + अन्यतरत् + भजन्ते
९. समस्तपदानि लिखत (Write Compound Words)
-
(क) विघ्नैः विहताः = विघ्नविहताः
-
(ख) वस्त्रेण पूतम् = वस्त्रपूतम्
-
(ग) पुरुषः सिंहः इव = पुरुषसिंहम्
-
(घ) उत्तमाः जनाः = उत्तमजनाः
-
(ङ) न विवेकः = अविवेकः
