स्वामीभक्तः शुभ्रकः(अश्वः)

स्वामीभक्तः शुभ्रकः(अश्वः) च यवनाक्रमणकारिणः कुतुबुद्दीनस्य मृत्युः।। यवनाक्रमणकारी कुतुबुद्दीनः अजमेरस्य विद्रोहात् परं राजस्थानस्य अनेकेषु स्थानेषु नरसंहारं कारितवान् आसीत्। एवं परिस्थितौ तस्य कठोरविरोधः कृतः आसीत् उदयपुरस्य महाराजेन। परन्तु कुतुबुद्दीनेन सह युद्धे तस्य पराजयः अभवत्। कुतुबुद्दीनः छलेन राजकुमारं कर्णसिंहं बद्ध्वा तस्य च शुभ्रकः इति नाम्नः अश्वम् अपि लाहोरं नीत्वा तं कारागारे स्थापितवान् आसीत्। अश्वः शुभ्रकः महान् प्रतापी स्वामीभक्तः … Read more

परोपकारी

नारायणकूटं नाम ग्रामः। तत्र रमणः नाम परोपकारी वसति स्म। एकदा महत्या वृष्ट्या चण्डमारुतेन च वृक्षाः पतिताः गृहाणि शिथिलानि जातानि। बहवः निर्गतिकाः अभवन्। रमणः गृहं गृहम् अटित्वा धनं सङ्गृहीतवान्। निर्गतिकानां कृते तेन धनेन कुटीरान् निर्माप्य दत्तवान्। एतत् पुण्यकार्यार्थं ग्रामीणाः सर्वे धनं दत्तवन्तः। किन्तु धनगुप्तः नाम धनिकः एकं नाणकम् अपि न दत्तवान्। अधिकदानं ये कृतवन्तः तेषां नामानि … Read more

सफलः त्यागः

इराक् देशे लघुराज्यम् आसीत्। तत् राज्यं कश्चित् राजा पालयति स्म। सः तरुणः आसीत्। केनापि कारणेन अविवाहितः च। तस्मिन् राज्ये बहु भिक्षुकाः आसन्। तेषु दृढकायाः पुरुषाः सबलाः स्त्रियः च आसन्। एकदा भिक्षुकाणां विषये महाराजस्य जुगुप्सा सञ्जाता। अतः राजा चिन्तितवान् – एते भिक्षुकाः अपस्वरेण रटन्तः जनान् पीडयन्ति। देवमन्तिरे उद्याने इति यत्र कुत्रापि गत्वा तत्परिसरं मलिनयन्ति। केचन सशक्ताः … Read more

मूलधनम्

एकस्मिन् ग्रामे परमेशः इति कृषिकः। तस्य अल्पा भूमिः। वृष्टिः अपि काले काले न भवति। सः परिश्रमेण कृषिं करोति स्म। तस्य पत्नी गौरी इति। सा अपि कष्टसहिष्णुः। सा सर्वदा सर्वेषु कार्येषु पत्युः साहाय्यं कर्तुम् इच्छति स्म। तयोः चत्वारः पुत्राः सञ्जाताः। परमेशः पत्नीं पुत्रपालने नियुज्य एकाकी कृषिकार्यं करोति स्म। पुत्राणां नामानि जयेशः नरेशः उमेशः रमेशः च। परमेशः … Read more

स्थूलः वामनः च

कश्चित् ग्रामः। तत्र रामिलः नाम कश्चित् श्रेष्ठी वसति स्म। तस्य पत्नी जीवम्मा इति। तयोः दम्पत्योः सोमः नाम एकः एव पुत्रः। मातापित्रोः परमप्रीतिपात्रं सोमः। सः यत् यत् इच्छति तत् सर्वं तस्य कृते दातुं रामिलस्य प्रयत्नः। जीवम्मा अपि अस्मिन् विषये पुत्रपक्षपातिनी एव आसीत्। अतः सोमस्य बुद्धेः अपेक्षया देहः सम्यक् वर्धितः। गच्छता कालेन सोमः तरुणः अभवत्। तस्य वयः … Read more