२. एकपदेन उत्तरं लिखत (Answer in one word)
| Question | Answer |
| (क) नामदेवः कुत्रत्यः प्रसिद्धः महात्मा? (From where was Namdev a famous Mahatma?) | महाराष्ट्रस्य |
| (ख) कपिलः माधवी च अवकाशकाले कुत्र गतवन्तौ? (Where did Kapil and Madhavi go during holidays?) | मातुलगृहम् |
| (ग) नामदेवमहाराजः कुत्र निवसति स्म? (Where did Namdev Maharaj live?) | पण्ढरपुरे |
| (घ) नामदेवमहाराजः किम् आरब्धवान्? (What did Namdev Maharaj start?) | सङ्कीर्तनम् |
| (ङ) शुनकः मुखेन किं गृहीत्वा धावितवान्? (What did the dog run away with in its mouth?) | रोटिकाम् |
३. पूर्णवाक्येन उत्तराणि लिखत (Answer in full sentences)
-
(क) कपिलः माधवी च शुनकं मारयितुं किमर्थं धावितवन्तौ?
-
उत्तरम्: कपिलः माधवी च क्रीडावेलायां मनोरञ्जनार्थं शुनकं मारयितुं धावितवन्तौ।
-
-
(ख) मातामही ताभ्यां किं कथितवती?
-
उत्तरम्: मातामही कथितवती यत् “सर्वेषु जीवेषु ईश्वरः निवसति, अतः प्राणिनां हिंसनं न करणीयम्” इति।
-
-
(ग) नामदेवमहाराजः शुनकस्य पृष्ठतः किमर्थं धावितवान्?
-
उत्तरम्: नामदेवमहाराजः शुनकस्य रोटिकायां घृतं लेपयितुं तस्य पृष्ठतः धावितवान्।
-
-
(घ) नामदेवमहाराजः शुनकं प्रति किं प्रार्थितवान्?
-
उत्तरम्: नामदेवमहाराजः प्रार्थितवान् यत् “हे विठ्ठल! शुष्कां रोटिकां मा खाद, घृतमिश्रितां रोटिकां खाद” इति।
-
-
(ङ) कः पण्डितः इति कथ्यते?
-
उत्तरम्: यः सर्वभूतेषु आत्मवत् (स्ववत्) पश्यति, सः पण्डितः इति कथ्यते।
-
४. रिक्तस्थानानि पूरयन्तु (Fill in the blanks)
-
(क) तौ शुनकं मारयितुं धावितवन्तौ।
-
(ख) मातामही तं प्रसङ्गं दूरात् दृष्टवती।
-
(ग) सः एकान्ते उपविश्य रोटिकां खादितुम् इच्छति स्म।
-
(घ) तस्य चक्षुषोः आनन्दाश्रूणि आगतानि।
-
(ङ) आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः।
५. विलोमपदानि लिखत (Write the antonyms)
-
(क) प्रसिद्धः- अप्रसिद्धः
-
(ख) अवकाशः –कार्यकालः
-
(ग) समीपे – दूरे
-
(घ) हसितवन्तौ- रुदितवन्तौ
-
(ङ) शुष्का –आर्द्रा
६. सन्धिच्छेदं कुरुत (Separate the Sandhi)
-
(क) पश्यति सः= पश्यति + सः
-
(ख) चक्षुषोरानन्दाश्रूणि = चक्षुषोः + आनन्दाश्रूणि
-
(ग) चेत्यादीनि = च + इत्यादिनी
-
(घ) तत्रागच्छत् = तत्र + आगच्छत्
-
(ङ) कोऽपि = कः + अपि
८. अधोलिखितानां मेलनं कुरुत (Match the following)
| स्तम्भ ‘क’ | स्तम्भ ‘ख’ |
| (क) प्रसिद्धः | महात्मा |
| (ख) अवकाश | काले |
| (ग) पाषाण | खण्डम् |
| (घ) आनन्द | अश्रूणि |
| (ङ) नामदेव | महाराजः |
