प्रस्तुत पाठ में संस्कृत के विभिन्न काव्य-ग्रन्थों से आठ सुभाषितों को संकलित किया गया है। सुभाषित सुन्दर वचन होते हैं जो कर्णप्रिय होने के कारण मन को आनन्दित तो करते ही हैं, इसके अतिरिक्त सुभाषितों में अनेक नीतिगत बातें कही गई हैं। ये मनुष्य के जीवनको सुखमय बनाते हैं। सुभाषित के इन पदों में मानव जीवन हेतु व्यवहारोपयोगी वचन भी प्राप्त होते हैं। अनेक सुभाषित मनुष्य को दुर्व्यसनों दूर रहने का उपदेश भी देते हैं। सुभाषितों में सुंदर शिक्षा भी दी गई है जो मनुष्य का सर्वथा हित सिद्ध करती है। इसलिए हमें नित्य सुभाषितों का पठन व मनन करना चाहिए ।
(क) पितामहि! एकां नूतनां कथां कथयतु ।
वत्से ! त्वं प्रतिदिनं तु कथां शृणोषि अद्य नीतिश्लोकान् शृणु।
नीतिश्लोकाः.?
आम्। नीतिश्लोकाः। नीतिश्लोकाः नाम सुभाषितानि ।
किं नाम सुभाषितानि ?
सुष्ठु भाषितानि इति सुभाषितानि अर्थात् शोभनानि वचनानि । तानि सर्वदा जनानां हिताय भवन्ति ।
सुभाषितपठनेन कः लाभः ?
सुभाषितपठनेन आदर्श – मानवजीवन-निर्माणाय प्रेरणा प्राप्यते । मानवजीवनस्य सुखाय समृद्धये च सुभाषितानां पठनस्य आवश्यकता अस्ति । यः सुभाषितानि पठित्वा कार्यक्षेत्रे तस्य ज्ञानस्य प्रयोगं करोति सः बहून् लाभान् प्राप्नोति ।
अहो सुन्दरम्। यदि एवं तर्हि अहं नूनं सुभाषितानि पठिष्यामि ।
सुभाषितानि स्वकर्तव्यस्य अकर्तव्यस्य च विषये स्पष्टतया मार्गदर्शनं कुर्वन्ति । अतः सर्वे अवश्यं सुभाषितानि पठन्तु । तानि पठित्वा सर्वे जीवनस्य रहस्यम् अवगच्छन्तु, जीवनं सुखमयं च कुर्वन्तु । (पृष्ठ 24)
सरलार्थ-
हे दादी जी ! एक नवीन कथा कहिए ।
पुत्री ! तुम प्रतिदिन तो कथा सुनती हो, आज नीतिश्लोकों को सुनो।
नीतिश्लोक ……?
हाँ, नीतिश्लोक । नीतिश्लोक नाम सुभाषित। सुभाषित क्या है ?
अच्छी प्रकार कहे गए सुभाषित अर्थात् सुन्दर वचन । वे सदा लोगों के हित के लिए होते हैं। सुभाषितों के पठन से क्या लाभ है?
सुभाषितों के पढ़ने से आदर्श मानव जीवन के निर्माण के लिए प्रेरणा प्राप्त होती है। मानव जीवन के सुख और समृद्धि के लिए सुभाषितों के पढ़ने की आवश्यकता होती है जो सुभाषितों को पढ़कर कार्यक्षेत्र में उनके ज्ञान का प्रयोग करता है, अनेक लाभों को प्राप्त करता है।
अहो, सुंदर है। यदि ऐसा है तो मैं अवश्य सुभाषित पढूँगी।
सुभाषित अपने कर्त्तव्य और अकर्त्तव्य के विषय में स्पष्टता से मार्गदर्शन करते हैं। इसलिए सभी अवश्य सुभाषित पढ़ें। उन्हें पढ़कर सभी जीवन के रहस्य को जान लो और जीवन को सुखी करो ।
(ख) गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे ।
स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात्॥१॥
पदच्छेदः – गायन्ति देवाः किल गीतकानि धन्याः तु ते भारतभूमिभागे स्वर्गापवर्गास्पद – मार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात्।
अन्वयः – भारतभूमिभागे (ये) भवन्ति ते किल । धन्याः इति देवाः गीतकानि गायन्ति । स्वर्गापवर्गास्पद-मार्गभूते (भारतभूमिभागे) तु (देवा:) सुरत्वात् भूयः पुरुषा : (भवन्ति)। (पृष्ठ 25)
सरलार्थ – भारत भूमि खण्ड में (जो लोग ) होते हैं, वे अवश्य धन्य हैं-ऐसा देवता लोग गीत गाते हैं। स्वर्ग और मोक्ष के आधारभूत (इस भारत भूमि पर ) तो ( देवता भी ) देवता होने की अपेक्षा पुनः मनुष्य होना चाहते हैं।
भावार्थ:- ये मानवाः अस्यां भारतभूमौ जन्म प्राप्नुवन्ति धन्याः इति भारतभूमेः गुणगानं देवाः कुर्वन्ति । अतः वयं सर्वे भारतीयाः भाग्यशालिनः स्मः । धर्म-अर्थ-काम-मोक्षादिप्राप्तये मार्गभूते अस्मिन् भूखण्डे देवाः अपि देवत्वं विहाय मनुष्यरूपेण जन्मग्रहणार्थम् अभिलषन्ति । (पृष्ठ 25)
ग) गुणी गुणं वेत्ति न वेत्ति निर्गुणः बली बलं वेत्ति न वेत्ति निर्बलः ।
पिको वसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न मूषकः ॥ २ ॥
पदच्छेद:- गुणी गुणम् वेत्ति न वेत्ति निर्गुणः बली बलम् वेत्ति न वेत्ति निर्बलः पिकः वसन्तस्य गुणम् न वायसः, करी च सिंहस्य बलम् न मूषकः ।
अन्वयः – गुणी गुणं वेत्ति । निर्गुण: (गुणं) न वेत्ति । बली बलं वेत्ति, निर्बलः (बल) न वेत्ति । पिकः वसन्तस्य गुणं (वेत्ति) वायसः (वसन्तस्य गुणं) न ( वेत्ति) । करी च सिंहस्य बलं (वेत्ति)। मूषकः ( सिंहस्य बलं ) न वेत्ति । (पृष्ठ 25 )
सरलार्थ–गुणवान् (व्यक्ति) गुण को जानता है तथा गुणहीन (गुण को) नहीं जानता है। बलवान् (व्यक्ति) बल को जानता है। बलहीन ( बल को) नहीं जानता। कोयल वसंत के गुण को जानती है। कौआ (वसंत के गुण को ) नहीं जानता है। हाथी सिंह के बल को ( जानता है ) । चूहा (सिंह के बल को) नहीं जानता है।
भावार्थ:-गुणवान् जनः अन्येषां सद्गुणान् ज्ञातुं शक्नोति। परन्तु गुणहीनः जनः अपरेषां सुगुणान् अवगन्तुं समर्थः न भवति। बलवान् जनः यथा अन्येषां बलं ज्ञातुं शक्नोति तथा बलरहितः जनः अन्येषां बलं ज्ञातुं न शक्नोति । वसन्तकाले आगते पिकः वसन्तस्य गुणानुरूपं कुहुतानं करोति । परन्तु काकः मधुरं गातुं न शक्नोति । गजः पशुराजसिंहस्य बलं जानाति किन्तु मूषकः तस्य बलं ज्ञातुं न पारयति। अतः योग्यः एव महत्त्वं ज्ञातुं समर्थो भवति, न अयोग्यः ।
(घ) भवन्ति नम्रास्तरवः फलोद्गमैः नवाम्बुभिर्दूरविलम्बिनो घनाः । (पृष्ठ 25-26)
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्॥३॥
पदच्छेदः – भवन्ति नम्राः तरवः फलोद्गमैः नवाम्बुभिः दूरविलम्बिनः घनाः अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एव एषः परोपकारिणाम् ।
अन्वयः-तरवः फलोद्गमैः नम्राः भवन्ति । घनाः नवाम्बुभिः दूरविलम्बिनः (भवन्ति) । सत्पुरुषाः समृद्धिभिः अनुद्धताः (भवन्ति)। परोपकारिणाम् एष एव स्वभाव: (भवति)। (पृष्ठ 26)
सरलार्थ – फल आने पर वृक्ष झुक जाते हैं। नया जल भर जाने से बादल नीचे लटक जाते हैं। सम्पत्तियों के द्वारा सज्जन लोग विनम्र हो जाते हैं । परोपकारी लोगों का यह ही स्वभाव है।
भावार्थ:-समयानुसारं वृक्षेषु फलानि जायन्ते । फलभारेण ते वृक्षाः नम्राः भवन्ति। तथैव नवजलैः परिपूर्णा: मेघाः अवनता: भवन्ति, भूमिं प्रति आयान्ति वृष्टिं च कुर्वन्ति । अस्मिन् संसारे बहवः परोपकारिणः जनाः सन्ति । स्वसमृद्धिकाले ते औद्धत्यं न प्रकटयन्ति। ते सहृदया: विनम्राः च सन्तः सदैव परोपकाराय यत्नशीलाः भवन्ति। ते परोपकारं व्रतरूपेण धारयन्ति । उक्तं च व्यासमहर्षिणा – परोपकारः पुण्याय पापाय परपीडनम् । (पृष्ठ 26-27)
(ङ) यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः ।
तथा चतुर्भिः पुरुषः परीक्ष्यते कुलेन शीलेन गुणेन कर्मणा॥४॥
पदच्छेदः- : – यथा चतुर्भिः कनकम् परीक्ष्यते निघर्षण-च्छेदन- ताप-ताडनैः तथा चतुर्भिः पुरुषः परीक्ष्यते कुलेन शीलेन गुणेन कर्मणा ।
अन्वयः-यथा निघर्षण – छेदन – ताप-ताडनैः चतुर्भिः (उपायैः) कनकं परीक्ष्यते । तथा कुलेन शीलेन गुणेन कर्मणा (च) चतुर्भिः पुरुषः परीक्ष्यते। (पृष्ठ 27)
सरलार्थ – जिस प्रकार घर्षण, छेदन, आग में तपाना और प्रहार इन चार (विधियों) के द्वारा सोना परखा जाता है, उसी प्रकार कुल आचरण, गुण और कर्म इन चार के द्वारा पुरुष की परीक्षा की जाती है।
भावार्थ:-स्वर्णकारः सुवर्णस्य शुद्धताम् आकलयितुम् आदौ निकष प्रस्तरे निघर्षणं करोति, तदनन्तरं तस्य सुवर्णस्य कर्तनं करोति, ततः अग्निना दाहयति, अन्ते सुवर्णखण्डे प्रहारं करोति। एभिः चतुर्भिः प्रकारैः परीक्ष्य सुवर्णस्य पूर्णशुद्धतां ज्ञातुं शक्नोति। तथैव
यथा – पुरुष: अपि चतुर्भिः उपायैः परीक्षणीयः । कस्मिन् परिवारे अयं जनः जन्म अलभत ? तस्य स्वभावः कीदृशः अस्ति ? सः कीदृशैः गुणैः युक्तः अस्ति ? पुनः सः केन कर्मणा सर्वत्र समादृतः भवति ? इति । एषु निकषेषु परीक्ष्य एव तस्य व्यक्तित्वं ज्ञातुं शक्यते । (पृष्ठ 27)
(च) अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥५॥
पदच्छेदः – अष्टौ गुणा: पुरुषम् दीपयन्ति प्रज्ञा च कौल्यम् च दमः श्रुतम् च। पराक्रमः च अबहुभाषिता च दानम् यथाशक्ति कृतज्ञता च ।
अन्वयः – प्रज्ञा कौल्यं दमः श्रुतं पराक्रमः अबहुभाषिता च यथाशक्ति दानं कृतज्ञता च ( इत्येते ) अष्टौ गुणाः पुरुषं दीपयन्ति। (पृष्ठ 28)
सरलार्थ – व्यक्ति को आठ गुण सुशोभित करते हैं – विशेष ज्ञान, कुलीनता, संयम, वेदशास्त्रों का ज्ञान, वीरता, संयमित वचन, शक्ति के अनुसार दान और कृतज्ञता ।
भावार्थ:
अष्टभिः गुणैः युक्त: मानवः सर्वदा समाजे सम्मानं प्राप्नोति। विशेषज्ञानं, कुलीनता, संयमः, वेदादीनां शास्त्राणां ज्ञानं, पराक्रमः, अल्पभाषिता, सामर्थ्यानुसारं दानशीलता, कृतज्ञता च इति एते अष्टौ गुणाः सन्ति। मानवः उत्तमगुणान् आश्रित्य सम्मानितः भवति। अतः उक्तम्- गुणवान् पूज्यते नरः । (पृष्ठ 28)
(छ) न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मः स नो यत्र न सत्यमस्ति सत्यं न तद्यच्छलमभ्युपैति ॥ ६ ॥
पदच्छेदः :- न सा सभा यत्र न सन्ति वृद्धाः वृद्धाः न ते ये न वदन्ति धर्मम् धर्मः सः नो यत्र न सत्यम् अस्ति सत्यम् न तद् यद् छलम् अभ्युपैति ।
अन्वयः [:- सा सभा न ( अस्ति), यत्र वृद्धाः न सन्ति । ते वृद्धाः न (सन्ति), ये धर्मं न वदन्ति । सः धर्मः न उ (अस्ति), यत्र सत्यं न अस्ति । तत् सत्यं न (अस्ति), यत् छलम् अभ्युपैति। (पृष्ठ 28)
सरलार्थ- वह सभा नहीं, जहाँ वृद्ध पुरुष न हों। वे वृद्ध नहीं जो धर्म की (बात) नहीं कहते हों। वह धर्म नहीं, जहाँ सत्य न हो। वह सत्य नहीं, जो कपट को प्राप्त करता है।
भावार्थ:- अस्मिन् संसारे विविधाः सभाः भवन्ति । सभासु जनसमागमः भवति। बहुभाषणं प्रचलति । तेन साफल्यं न भवति । वस्तुतः सा एव सभा सफला भवति यत्र वयोवृद्धाः ज्ञानवृद्धाः च जनाः भवेयुः । पुनरपि ते ज्ञानवृद्धाः धर्मविषये वदेयुः । धर्मसम्बद्धायां चर्चायां सत्यम् एव वक्तव्यं यत् सत्यं तथ्ययुक्तं भवेत् न तु छलनायुक्तम् इति। (पृष्ठ 28)
(ज) दुर्जनेन समं सख्यं प्रीतिं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥७॥
पदच्छेदः – दुर्जनेन समम् सख्यम् प्रीतिम् च अपि न कारयेत् उष्णः दहति च अङ्गारः शीतः कृष्णायते करम्।
अन्वयः – दुर्जनेन समं सख्यं प्रीतिं च अपि न कारयेत् । उष्णः अङ्गारः दहति शीतः च करं कृष्णायते । ( पृष्ठ 29 )
सरलार्थ – दुष्ट (व्यक्ति) के साथ मित्रता और प्रीति नहीं करनी चाहिए। गर्म अंगारा जला डालता है और ठण्डा (अंगारा) हाथ को काला कर देता है।
भावार्थ:- दुर्जनेन सह मैत्री न करणीया । यतो हि दुर्जन: विश्वासयोग्यः न भवति । दुर्जनेन सह बन्धुता प्रीतिः न करणीया। यतः तस्य दुर्जनस्य मुखे माधुर्यं परं हृदये कपटता भवति। अङ्गारः उष्णः भवति चेत् तापेन करं ज्वालयति । पुनः यदि सः अङ्गारः शीतलः अस्ति तदापि हस्तं मलिनं करोति। तथैव दुर्जनः सर्वदा एव अनिष्टं करोति कारयति च । अतः विद्यया अलङ्कृतोऽपि दुर्जन: परिहर्तव्य: । (पृष्ठ 29)
(झ) यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति ॥ ८ ॥
पदच्छेदः – यथा हि एकेन चक्रेण न रथस्य गतिः भवेत् एवम् पुरुषकारेण विना दैवम् न सिध्यति ।
अन्वयः-यथा हि एकेन चक्रेण रथस्य गतिः न भवेत् एवं पुरुषकारेण विना दैवं न सिध्यति । (पृष्ठ 29)
सरलार्थ – जिस प्रकार एक पहिए से रथ की गति नहीं होती है। उसी प्रकार उद्यम के बिना भाग्य सिद्ध नहीं होता है।
भावार्थः – रथस्य गतिः चक्रद्वयेन एव सम्यक् भवति । एकेन चक्रेण रथस्य गमनं न सम्भवेत्। रथस्य गतिः स्थगिता स्यात् । पुरुषार्थेन विना फलं न सिध्यति । भाग्ये स्थितेऽपि उद्योगेन एव फलं लभ्यते । अत्र अनुभूयते यत् प्रयत्नः भाग्यं च मानवरथस्य द्वे चक्रे स्तः । उक्तम् अपि उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । (पृष्ठ 29)