प्रश्न 1.एकपदेन उत्तरं लिखत –

(क) क: बाल्ये विद्यां न अधीतवान्?
(ख) तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?
(ग) मकरालये कः शिलाभिः सेतुं बबन्ध?
(घ) मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?
(ङ) पुरुषः सिकताभिः किं करोति?
उत्तर:
(क) तपोदत्तः
(ख) तपश्चर्यया
(ग) रामः
(घ) गृहम्
(ङ) सेतुनिर्माण-प्रयासम्

प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखित –

(क) अनधीतः तपोदत्तः के: गर्हितोऽभवत्?
(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
(ग) तपोदत्तः पुरुषस्य का चेष्टां दृष्ट्वा अहसत्?
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?
उत्तर:
(क) अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैः च गर्हितः अभवत्।
(ख) तपोदत्तः तपश्चर्यया विद्या प्राप्तुम् प्रवृत्तोऽभवत्।
(ग) तपोदत्तः पुरुषस्य सिकताभिः सेतुनिर्माणप्रयासं दृष्ट्वा अहसत्।
(घ) तपोमात्रेण विद्या प्राप्तु तस्य प्रयास: सिकताभिरेव सेतुनिर्माणप्रयासमिव कथितः।
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलं गतः।

प्रश्न 3.भिन्नवर्गीयं पदं चिनुत –
यथा- अधिरोढुम्, गन्तुम्, सेतुम्, निर्मातुम्।

(क) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य।
(ख) विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि।
(ग) तपोभिः, दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः।
उत्तर:
(क) चिन्तय
(ख) करिष्यामि
(ग) दुर्बुद्धिः

प्रश्न 4.(क) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?

(क) अलमलं तव श्रमेण।
(ख) न अहं सोपानमागैरट्टमधिरोदु विश्वसिमि।
(ग) चिन्तितं भवता न वा।
(घ) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
(ङ) भवद्भिः उन्मीलितं मे नयनयुगलम्।
उत्तर:
(क) पुरुषाय
(ख) पुरुषाय
(ग) पुरुषाय
(घ) तपोदत्ताय,
(ङ) तपोदत्ताय।

(ख) अधोलिखितानि कथनानि कः कं प्रति कथयति?

कथनानि – कः – कम्

(क) हा विधे। किमिदं मया कृतम्? – ……………. – …………………
(ख) भो महाशय! किमिदं विधीयते। – ……………. – …………….
(ग) भोस्तपस्विन्! कथं माम् उपरुणत्सि। – ……………. – …………….
(घ) सिकताः जलप्रवाहे स्थास्यन्ति किम्? – ……………. – …………….
(ङ) नाहं जाने कोऽस्ति भवान्? – ……………. – …………….
उत्तर:
कः – कम्
(क) तपोदत्तः – विधिम्
(ख) तपोदत्तः – पुरुषम्
(ग) पुरुषः – तपोदत्तम्
(घ) तपोदत्तः – पुरुषम्
(ङ) तपोदत्तः – पुरुषम्

प्रश्न 5.स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) तपोदत्तः तपश्यचर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
(ख) तपोदत्तः कुटुम्बिभिः मित्रः गर्हितः अभवत्।
(ग) पुरुषः नद्यां सिकताभिः सेतु निर्मातुं प्रयतते।
(घ) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।
(छ) तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
(च) गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।
उत्तर:
(क) तपोदत्तः कया (केन प्रकारेण) विद्यामवाप्तुं प्रवृत्तोऽस्ति?
(ख) कः कुटुम्बिभिः मित्रै गर्हितः अभवत्?
(ग) पुरुषः कुत्र सिकताभिः सेतुं निर्मातु प्रयतते?
(घ) तपोदत्तः कम् विनैव वैदुष्यमवाप्तुम् अभिलषति?
(ङ) तपोदत्तः किमयर्म् गुरुकुलम् अगच्छत्।
(च) कुत्र गत्वैव विद्याभ्यास: करणीयः?

प्रश्न 6.उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

विग्रहपदानि – समस्तपदानि
यथा- संकल्पस्य सातत्येन संकल्पसातत्येन

(क) अक्षराणां ज्ञानम् – ………………..
(ख) सिकतायाः सेतुः – ………………..
(ग) पितुः चरणैः – ………………..
(घ) गुरोः गृहम् – ………………..
(ङ) विद्यायाः अभ्यासः – ………………..
उत्तर:
(क) अक्षरज्ञान,
(ख) सिकतासेतुः,
(ग) पितृचरणैः,
(घ) गुरुगृहम,
(ङ) विद्याभ्यासः।

(अ) उदाहरणमनुसत्य अधोलिखितानां समस्तपदाना विग्रह कुरुत –

समस्तपदानि – विग्रहः
यथा- नयनयुगलम् नयनयों: युगलम्

(क) जलप्रवाह – …………….
(ख) तपश्चर्यया – …………….
(ग) जलोच्छलनध्वनिः – …………….
(घ) सेतुनिर्माणप्रयासः – …………….
उत्तर:
(क) जलस्य प्रवाहे
(ख) तपसः चर्यया
(ग) जलस्य उच्छलनस्य ध्वनिः
(घ) सेतो: निर्माणस्य प्रयासः

प्रश्न 7.उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –

(क) यथा – अलं – चिन्तया। – (‘अलम्’ योगे तृतीया)
(i) ………………. – ………………….. – (भय)
(ii) ………………. – ………………….. – (कोलाहल)

(ख) यथा- माम् अनु सः गच्छति। – (‘अनु’ योगे द्वितीया)
(i) ………………. – ………………….. – (गृह)
(ii) ………………. – ………………….. – (पर्वत)

(ग) यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘विना’ योगे द्वितीया)
(i) ………………. – ………………….. – (परिश्रम)
(ii) ………………. – ………………….. – (अभ्यास)

(घ) यथा- सन्ध्या यावत् गृहमुपैति। – (‘ यावत्’ योगे द्वितीया)
(i) ………………. – ………………….. – (मास)
(ii) ………………. – ………………….. – (वर्ष)

उत्तर:(क).
(i) अलं भयेन। (भय)
(ii) अलं कोलाहलेन। (कोलाहल)

(ख)
(i) गृहम् अनु मम विद्यालय अस्ति। (गृह)
(ii) पर्वतम् अनु नदी वहति।. (पर्वत)

(ग)
(i) परिश्रमं विनैव त्वं प्रथमस्थान प्राप्तुमभिलषसि। (परिश्रम)
(ii) अभ्यास विनैव त्वं विद्या प्राप्तुमभिलषसि। (अभ्यास)

(घ)
(i) मासं यावत् अभ्यास करोषि! (मास)
(ii) वर्षम् यावत् तपः आचरिष्यसि। (वर्ष)

Scroll to Top