प्रश्न 1.एकपदेन उत्तरं लिखत –
(क) वाणिक्यपुत्रस्य किं नाम आसीत्?
(ख) तुला कैः भक्षिता आसीत्?
(ग) तुला कीदृशी आसीत्?
(घ) पुत्रः केन हतः इति जीर्णधनः वदति?
(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ?
उत्तर:
(क) जीर्णधनः
(ख) मूषकैः
(ग) लौहघटिता
(घ) श्येनेन
(ङ) राजकुलम्
प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?
(ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
(ग) जीर्णधनः गिरिगुहाद्वार कया आच्छाद्य गृहमागतः?
(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
(ङ) धर्माधिकारिण: जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
उत्तर:
(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् “यत्र स्ववीर्यतः भोगाः भुक्ताः वसन्ति तत्र यः विभवहीनः वसेत् सः पुरुषाधमः अस्ति।”
(ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी अकथयत्-“भोः! त्वदीया तुला मूषकैः भक्षिता” इति।
(ग) जीर्णधनः गिरिगुहाद्वार बृहच्छिलया (बृहत् शिलया) आच्छाद्य गृहमागतः।
(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनम् अवदत्- “नदीतटात् सः बाल: श्येनेन हृतः” इति।
(ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ परस्परं संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।
प्रश्न 3.स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
(ग) वणिक् गिरिगुहा बृहच्छिलया आच्छादितवान्।
(घ) सभ्यैः तौ परस्पर संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
उत्तर:
(क) कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?
(ग) वणिक् गिरिगुहां कथम् कया आच्छादितवान्?
(घ) सभ्यः तौ परस्परं संबोध्य कथं सन्तोषितौ?
प्रश्न 4. अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –
(क) यत्र देशे अथवा स्थाने ……….. भोगाः भुक्ताः ……….. विभवहीनः यः ……….. पुरुषाधमः।
(ख) राजन्! यत्र लौहसहस्त्रस्य ……….. मुषका: ……….. तत्र श्येनः ……….. हरेत् अत्र संशयः न।
उत्तर:
(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ताः तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः।
(ख) राजन्! यत्र लौहसहस्रस्य तुलाम् मूषकाः खादन्ति तत्र श्येनः बालकम् हरेत् अत्र संशयः न।
प्रश्न 5.तत्पदं रेखाङ्कितं कुरुत यत्र –
(क) ल्यप् प्रत्ययः नास्ति।
विहस्य, लौहसहस्रस्य, संबोध्य, आदाय।
(ख) यत्र द्वितीया विभक्तिः नास्ति।
श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्।
(ग) यत्र षष्ठी विभक्तिः नास्ति।
पश्यतः, स्ववीर्यतः, श्रेष्ठिनः, सभ्यानाम्।
उत्तर:
(क) लौहसहस्रस्य
(ख) सत्वरम्
(ग) स्ववीर्यतः
प्रश्न 6.सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरबत –
(क) श्रेष्ठ्याह = …………….. + आह
(ख) …………. = द्वौ + अपि
(ग) पुरुषोपार्जिता = पुरुष + …………..
(घ) ……………… = यथा + इच्छया
(ङ) स्नानोपकरणम् = ………….. + उपकरणम
(च) ………………. = स्नान + अर्थम्
उत्तर:
(क) श्रेष्ठी
(ख) द्वावपि
(ग) उपार्जिता
(घ) यथेच्छया
(ङ) स्नान
(च) स्नानार्थम्
प्रश्न 7.समस्तपदं विग्रहं वा लिखत –
विग्रहः – समस्तपदम्
(क) स्नानस्य + उपकरणम् = ………………..
(ख) …………… + …………… = गिरिगुहायाम्
(ग) धर्मस्य + अधिकारी = ………………..
(घ) …………… + …………… = विभवहीनाः
उत्तर:
(क) स्नानोपकरणम्
(ख) गिरेः + गुहायाम्
(ग) धर्माधिकारी
(घ) विभवेन + हीना:
प्रश्न 7.(अ) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांश संस्कृतभाषया लिखत –
वणिक्पुत्रः – स्नानार्थम् – लौहतुला – अयाचत् – वृत्तान्तं – ज्ञात्वा – श्रेष्ठिन – प्रत्यागतः – गतः – प्रदानम्
उत्तर:एकदा जीर्णधनः नाम वणिक्पुत्रः धनोपार्जनाम देशान्तरं गन्तुम् अचिन्तयत्। तस्य गृहे एका ‘लौहतुला’ आसीत्। वणिक्पत्रः लौहतलाम् श्रेष्ठिनः गृहे रक्षित्वा सः देशान्तरं अस्थितः। देशान्तरं भ्रान्त्वा पुन: स्वपुरम् प्रत्यागत्य सः तुलामयाचत्। सः श्रेष्ठी उवाच-“तुला तु मूषके: भक्षिता।” ततः जीर्णधनः श्रेष्ठिनः पुत्रेण सह स्नानार्थ गतः। स्नात्वा सः श्रेष्ठिपुत्रं गिरिगुहायां प्रक्षिप्य, तद्द्वारं च बृहच्छिलया आच्छाद्य गृहम् आगतः। ततः सः वणिक् श्रेष्ठिनं स्वपुत्रविषये अपृच्छत्। वणिक् उवाच-“नदीतटात् सः श्येनेन हृतः” इति। सः शीघ्रमाह-“श्येन: बालं हर्तुं न शक्नोति अत: समर्पय में सुतम्। जीर्णधनः अवदत् यत्र लौहसहस्रस्य तुला मूषकाः खादन्ति तत्र बालकः श्येनेन हरेत्।” एवं विवदमानौ तौ राजकुलं गतौ। सर्व वृत्तान्तं ज्ञात्वा धर्माधिकारिभिः तुला-शिशु-प्रदानेन तौ द्वौ सन्तोषितौ।