प्रश्न 1.एकपदेन उत्तर लिखत –

(क) माता काम् आदिशत्?
(ख) स्वर्णकाक: कान् अखादत्?
(ग) प्रासादः कीदृशः वर्तते?
(घ) गृहमागत्य तया का समुद्घटिता?
(ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?
उत्तर:
(क) पुत्रीम्
(ख) तण्डुलान्
(ग) स्वर्णमयः
(घ) मञ्जूषा
(ङ) बृहत्तमाम्

प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
(ख) बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?
(ग) निधनायाः दुहिता मञ्जूषायां कानि अपश्यत?
(घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
(ङ) गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?
उत्तर:
(क) निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।
(ख) बालिकया पूर्व एतादृशः स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्।
(ग) निर्धनायाः दुहिता मञ्जूषायां महाहाणि हीरकाणि अपश्यत्।
(घ) बालिका वृक्षस्य उपरि स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।
(ङ) गर्विता बालिका स्वर्णमय सोपानम् अयाचत् ताम्रमयं च प्राप्नोत्।

प्रश्न 3.(अ) अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

शब्दाः – विलोमपदानि
(क) पश्चात् – ………..
(ख) हसितुम् – ………
(ग) अधः – ……………
(घ) श्वेतः – ………….
(ङ) सूर्यास्त: – ………….
(च) सुप्तः – …………..
उत्तर:
शब्दाः – विलोमपदानि
(क) पश्चात् x पूर्वम्
(ख) हसितुम् x रोदितुम्
(ग) अधः x उपरि
(घ) श्वेतः x कृष्णः
(ङ) सूर्यास्त: x सूर्योदयः
(च) सुप्तः x प्रबुद्धः

(आ) सन्धिं कुरुत –

(क) नि + अवसत् – ………….
(ख) सूर्य + उदयः – ………….
(ग) वृक्षस्य + उपरि – ………….
(घ) हि + अकारयत् – ………….
(ङ) च + एकाकिनी – ………….
(च) इति + उक्त्वा – ………….
(छ) प्रति + अवदत् – ………….
(ज) प्र + उक्तम् – ………….
(झ) अत्र + एव – ………….
(ञ) तत्र + उपस्थिता – ………….
(ट) यथा + इच्छम् – ………….
उत्तर:
(क) नि + अवसत् – न्यवसत्
(ख) सूर्य + उदयः – सूर्योदयः
(ग) वृक्षस्य + उपरि – वृक्षस्योपरि
(घ) हि + अकारयत् – ह्यकारयत्
(ङ) च + एकाकिनी – चैकाकिनी
(च) इति + उक्त्वा – इत्युक्त्वा
(छ) प्रति + अवदत् – प्रत्यवदत्
(ज) प्र + उक्तम् – प्रोक्तम्
(झ) अत्र + एव – अत्रैव
(ञ) तत्र + उपस्थिता – तत्रोपस्थिता
(ट) यथा + इच्छम् – यथेच्छम्

प्रश्न 4.स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) ग्रामे निर्थना स्त्री  अवसत्।
(ख) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।
(ग) सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
(घ) बालिका निर्धनमातुः दुहिता आसीत्।
(ङ) लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।
उत्तर:
(क) ग्रामे का अवसत्?
(ख) कं निवारयन्ती बालिका प्रार्थयत्?
(ग) कस्मात् पूर्वमेव बालिका तत्रोपस्थिता?
(घ) बालिका कस्याः दुहिता आसीत्?
(ङ) लुब्धा वृद्धा कस्य रहस्यमभिज्ञातवती?

प्रश्न 5.
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

(क) वि + लोक् + ल्यप् – ………….
(ख) नि – क्षिप् + ल्यप् – ………….
(ग) आ + गम् + ल्यप् – ………….
(घ) दृश् + क्त्वा – ………….
(ङ) शी + क्त्वा – ………….
(च) लघु + तमप् – ………….
उत्तर:
(क) वि + लोक् + ल्यप् – विलोक्य
(ख) नि – क्षिप् + ल्यप् – निक्षिप्य
(ग) आ + गम् + ल्यप् – आगम्य
(घ) दृश् + क्त्वा – दृष्ट्वा
(ङ) शी + क्त्वा – शयित्वा
(च) लघु + तमप् – लघुतम (लघुतमम्)

प्रश्न 6.प्रकृति-प्रत्यय-विभागं कुरुत –

(क) रोदितुम् – ………….
(ख) दृष्ट्वा – ………….
(ग) विलोक्य – ………….
(घ) निक्षिप्य – ………….
(ङ) आगत्य – ………….
(च) शयित्वा – ………….
(छ) लघुतमम् – ………….
उत्तर:
(क) रोदितुम् – रुद् + तुमुन्
(ख) दृष्ट्वा – दृश् + क्त्वा
(ग) विलोक्य –वि + लोक् + ल्यप्
(घ) निक्षिप्य – नि + क्षिप् + ल्यप्
(ङ) आगत्य – आ + गम् + ल्यप्
(च) शयित्वा – शी + क्त्वा
(छ) लघुतमम् – लघु + तमप्

प्रश्न 7.अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि – क:/का – कं/काम्
(क) पूर्व प्रातराशः क्रियताम्। – …………. – ………….
(ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। – …………. – ………….
(ग) तण्डुलान् मा भक्षय। – …………. – ………….
(घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि। – …………. – ………….
(ङ) भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। – …………. – ………….
उत्तर:
कथनानि – कः/का – कं/काम्
(क) पूर्व प्रातराशः क्रियताम्। – स्वर्णकाक: – बालिकाम्
(ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। – वृद्धा माता – पुत्रीम्
(ग) तण्डुलान् मा भक्षया – बालिका – स्वर्णकाकम्
(घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि। – स्वर्णकाकः – बालिकाम्
(ङ) भो नीचकाक! अहमागता, मां तण्डुलमूल्यं प्रयच्छ। – लुब्धायाः पुत्री – स्वर्णकाकम्

प्रश्न 8.उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
(क) जनः …………. बहिः आगच्छति। (ग्राम)
(ख) नद्यः …………. निस्सन्ति। (पर्वत)
(ग) …………. पत्राणि पतन्ति। (वृक्ष)
(घ) बालकः …………. बिभेति। (सिंह)
(ङ) ईश्वरः …………. त्रायते। (क्लेश)
(च) प्रभुः भक्तं …………. निवारयति। (पाप)
उत्तर:
(क) ग्रामात्
(ख) पर्वतात्/पर्वतेभ्यः
(ग) वृक्षात्
(घ) सिंहात्
(छ) क्लेशात्
(च) पापात्

Scroll to Top