प्रश्न 1.एकपदेन उत्तरं लिखत –

(क) मानवः कुत्र सुरक्षितः तिष्ठति?
(ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
(ग) आर्षवचनम् किमस्ति?
(घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?
(ङ), लोकरक्षा कया सम्भवति?
(च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति?
(छ) प्रकृतिः केषां संरक्षणाय यतते?
उत्तर:
(क) पर्यावरणकुक्षौ
(ख) वने
(ग) धर्मोक्षति रक्षितः
(घ) धर्मस्य (ङ) प्रकृतिरक्षया
(च) मातृगर्भे
(छ) प्राणिनाम् ।

प्रश्न 2अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –

(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
(ख) स्वार्थान्धः मानवः किं करोति?
(ग) पर्यावरणे विकृते जाते कि भवति?
(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
(ङ) लोकरक्षा कथं संभवति?
(च) परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
उत्तर:
(क) पृथिवी, जल, तेजो, वायुकाशश्चेति प्रकृत्या प्रमुखतत्वानि सन्ति।
(ख) स्वार्थान्धः मानवः पर्यावरणं नाशयति।
(ग) पर्यावरण विकृते जाते विविधाः रोगा: भीषणसमस्याश्च जायन्ते।
(घ) वापीकूपतडागादिनिर्माणं कृत्वा, कुक्कुरसूकर सर्प नकुला स्थलचराणां मत्स्यकच्छ मकर प्रभृतीनां जलचराणां रक्षणेन पर्यावरणस्य रक्षा करणीया।
(ङ) प्रकृतिरक्षयैव लोकरक्षा सम्भवति।
(च) परिष्कृत पर्यावरणम् अस्मभ्यम् सांसारिक जीवनसुखद, सद्विचारम्, सत्यसङ्कल्पम्, माङ्गलिकसामग्रीञ्च प्रददाति।

प्रश्न 3.स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) बनवृक्षाः निविवेक छिद्यन्ते।
(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
(ग) प्रकृतिः जीवनसुखं प्रददातिा
(घ) अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।
(ङ) पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।
उत्तर:
(क) के निर्विवेक छिद्यन्ते?
(ख) कस्मात् शुद्धवायुः न प्राप्यते?
(ग) प्रकृतिः किम् प्रददाति?
(घ) अजातश्शिशुः कुत्र/कस्मिन् सुरक्षितः तिष्ठति?
(ङ) पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?

प्रश्न 4.उदाहरणमनुसृत्य पदरचनां कुरुत –
(क) यथा – जले चरन्ति इति – जलचराः

  1. स्थले चरन्ति इति – …………….
  2. निशायां चरन्ति इति – …………….
  3. व्योम्नि चरन्ति इति – …………….
  4. गिरौ चरन्ति इति – …………….
  5. भूमौ चरन्ति इति – …………….

उत्तर:

  1. स्थलचराः
  2. निशाचराः
  3. व्योमचराः
  4. गिरिचराः
  5. भूमिचराः

(ख) यथा – न पेयम् इति – अपेयम

  1. न वृष्टि इति – …………….
  2. न सुखम् इति – …………….
  3. न भावः इति – …………….
  4. न पूर्णः इति – …………….

उत्तर:

  1. अवृष्टिः
  2. असुखम्
  3. अभावः
  4. अपूर्ण।

प्रश्न 5.
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः

(क) प्र + गम् + क्तिन्
(ख) दृश् + क्तिन् – ………………
(ग) गम् + क्तिन् – ………………
(घ) मन् + क्तिन् – ………………
(ङ) शम् + क्तिन् – ………………
(च) भी + क्तिन् – ………………
(छ) जन् + क्तिन् – ………………
(ज) भज् + क्तिन् – ………………
(झ) नी + क्तिन् – ………………
उत्तर:
(क) प्रगतिः
(ख) दृष्टिः
(ग) गतिः
(घ) मतिः
(ङ) शान्तिः
(च) भीतिः
(छ) जातिः
(ज) भक्तिः
(झ) नीतिः

प्रश्न 6.निर्देशानुसारं परिवर्तयत –
यथा – स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने)।
स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति।

(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
(घ) गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
(ङ) सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
उत्तर:
(क) सन्तप्तानां मानवानां मङ्गलं कुतः?
(ख) मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।
(ग) वनवृक्षः निर्विवेकं छिद्यते।
(घ) गिरिनिर्झरौ निर्मल जलं प्रयच्छतः।
(ङ) सरित: निर्मल जलं प्रयच्छन्ति।

(अ) पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।
यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।
(क) …………………………………………………………………
(ख) ………………………………………………………………..
(ग) ………………………………………………………………..
(घ) ………………………………………………………………..
(ङ) ………………………………………………………………..
उत्तर:
(क) अहम् वृक्षच्छेदनं न करिष्यामि।
(ख) अहम् नूतनवृक्षान् लताः च आरोपयिष्यामि।
(ग) अहम् पशून् पालयिष्यामि।
(घ) अहम् पशुपक्षिणाम् आखेट न करिष्यामि।
(ङ) अहम् वापीकूपतडागादीनां निर्माण करिष्यामि।

प्रश्न 7.उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –
यथा-
संरक्षणाय – सम्
(क) प्रभवति – ………………..
(ख) उपलभ्यते – ………………..
(ग) निवसन्ति – ………………..
(घ) समुपहरन्ति – ………………..
(ङ) वितरन्ति – ………………..
(च) प्रयच्छन्ति – ………………..
(छ) उपगता – ………………..
(ज) प्रतिभाति – ………………..
उत्तर:
(क) प्र.
(ख) उप
(ग) नि.
(घ) सम् + उप
(ङ) वि
(च) प्र.
(छ) उप
(ज) प्रति।

(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

(क) पत्रपुष्पे
(ख) लतावृक्षौ
(ग) पशुपक्षी
(घ) कीटपतङ्गो
उत्तर:
(क) पत्रम् पुष्पम् च।
(ख) लता वृक्षः च।
(ग) पशुः पक्षी च।
(घ) कोट: पतङ्गः च।
(अ) (आ)

Scroll to Top