प्रश्न 1.एकपदेन उत्तरं लिखत –
(क) आयतलोचना का अस्ति?
(ख) सा कं ददर्श?
(ग) खगोत्तमः कीदृशीं गिर व्याजहार?
(घ) जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?
(ङ) अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?
उत्तर:
(क) सीता
(ख) गृध्रम्
(ग) शुभाम्
(घ) तीक्ष्णनखचरणाभ्याम्
(ङ) दश
प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) “जटायो! पश्य” इति का वदति?
(ख) जटायुः रावणं किं कथयति?
(ग) क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
(घ) पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?
(ङ) जटायु: केन वामबाहुं दंशति?
उत्तर:
(क) “जटायो! पश्य” इति सीता वदति।
(ख) जटायुः रावणं कथयति-“(त्व) परदाराभिमर्शनात् नीचां मतिं निवर्तय। धीरः तत् न समाचरेत् यत् परः अस्य विर्गहयेत्।”
(ग) क्रोधवशात् रावणः तलेन आशु जटायुम् अभिघातुम् उद्यतः अभवत्।
(घ) पतगेश्वरः रावणस्य मुक्तामणि विभूषितं चापं सशरं बभज।
(ङ) जटायुः तुण्डेन वामबाहुं दंशति।
प्रश्न 3.उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
यथा –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)
(क) कवच + णिनि – ……………….
(ख) शर – णिनि – ……………….
(ग) कुशल + णिनि – ……………….
(घ) धन + णिनि – ……………….
(ङ) दण्ड – णिनि – ……………….
उत्तराणि
(क) कवचिन् (कवची)
(ख) शरिन् (शरी)
(ग) कुशलिन् (कुशली)
(घ) धनिन् (धनी)
(ङ) दण्डिन् (दण्डी)
(अ) रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत –
युवा, सशरः, वृद्धः, हताश्वः, महाबलः, पतगसत्तमः भग्नधन्वा, महागृध्रः, खगाधिपः, क्रोधमूच्छितः पतगेश्वरः, सरथः, कवची, शरी
यथा
रावणः – जटायुः
युवा – वृद्धः
- …………. – ……………
- …………. – ……………
- …………. – ……………
- …………. – ……………
- …………. – ……………
- …………. – ……………
उत्तर:यथा –
रावणः – जटायुः
युवा – वृद्धः
- सशरः – महाबलः
- हताश्वः – पतगसत्तमः
- भानधन्वा – महागृध्रः
- क्रोधमूच्छितः – खगाधिपः
- सरथः – पतगेश्वरः
- कवची – शरी
प्रश्न 4.
‘क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत –
‘क’ – ‘ख’
- कवची – अपतत्
- आशु – पक्षिश्रेष्ठः
- विरथः – पृथिव्याम्
- पपात – कवचधारी
- भुवि – शीघ्रम्
- पतगसत्तमः – रथविहीनः
उत्तर:
‘क’ – ‘ख’
- कवची – कवचधारी
- आशु – शीघ्रम्
- विरथः – रथविहीन:
- पपात – अपतत्
- भुवि – पृथिव्याम्
- पतगसत्तमः – पक्षिश्रेष्ठः
प्रश्न 5.अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
- मन्दम्
- पुण्यकर्मणा
- हसन्ती
- अनार्य
- अनतिक्रम्य
- प्रदाय
- देवेन्द्रेण
- प्रशंसेत्
- दक्षिणेन
- युवा
पदानि – विलोमशब्दाः
(क) विलपन्ती – ……………….
(ख) आर्य – ……………….
(ग) राक्षसेन्द्रेण – ……………….
(घ) पापकर्मणा – ……………….
(ङ) क्षिप्रम् – ……………….
(च) विगर्हयेत् – ……………….
(छ) वृद्धः – ……………….
(ज) वामेन – ……………….
(झ) अतिक्रम्य – ……………….
उत्तर:पदानि – विलोमशब्दाः
(क) विलपन्ती – हसंती
(ख) आर्य – अनार्य
(ग) राक्षसेन्द्रेण – देवेन्द्रेण
(घ) पापकर्मणा – पुण्यकर्मणा
(ङ) क्षिप्रम् – मन्दम्
(च) विगर्हयेत् – प्रशंसेत्
(छ) वृद्धः – युवा
(ज) वामेन – दक्षिणेन
(झ) अतिक्रम्य – अनतिक्रम्य
प्रश्न 6.(अ) अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
(क) शुभाम् – ……………
(ख) खगाधिपः – ……………
(ग) हतसारथिः – ……………
(घ) वामेन – ……………
(ङ) कवची – ……………
उत्तर:
(क) शुभाम् – जटायुः शुभाम् गिराम् रावणम् अवदत्।
(ख) खगाधिपः – जटायुः खगाधिपः आसीत्।
(ग) हतसारथिः – जटायो: आक्रमणेन रावणः हतसारथिः अभवत्।
(घ) वामेन – रावणः वामेन अङ्केन सीताम् अधारयत्।
(ङ) कवची – रावणः कवची आसीत्।
(आ) उदाहरणमनुसृत्य समस्तं पदं रचयत –
यथा –
त्रयाणां लोकानां समाहार: – त्रिलोकी
(क) पञ्चानां वटानां समाहार:
(ख) सप्तानां पदानां समाहारः
(ग) अष्टाना भुजानां समाहार:
(घ) चतुर्णा मुखानां समाहारः
उत्तर:
(क) पञ्चवटी (पञ्चवटम्)
(ख) सप्तपदी (सप्तपदम्)
(ग) अष्टभुजी (अष्टभुजम्)
(घ) चतुर्मुखी (चतुर्मुखम्)