प्र०2 यथायोग्यं श्लोकांशान् मेलयत-
क ख
धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च सत्येन तपते रविः।
उत्तर-
क ख
धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च।
विस्मयो न हि कर्त्तव्यः बहुरत्ना वसुन्धरा।
सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सद्भिर्विवादं मैत्रीं च नासद्भिः किञ्चिदाचरेत्।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।
प्र० 3 एकपदेन उत्तरत-
(क) पृथिव्यां कति रत्नानि? (क) त्रीणि ।
(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते? (ख) पाषाणखण्डेषु ।
(ग) पृथिवी केन धार्यते? (ग)सत्येन ।
(घ) कैः सङ्गितं कुर्वीत? (घ) सद्भिः ।
(ङ) लोके वशीकृतिः का? ङ)क्षमा।
प्र० 4 रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) सत्येन वाति वायुः।
(ख) सद्भिः एव सहासीत।
(ग) वसुन्धरा बहुरत्ना भवति।
(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।
(ङ) सद्भिः मैत्रीं कुर्वीत।
उत्तर-
(क) केन वाति वायु:?
(ख) काभि: एव सहासीत?
(ग) का बहुरत्ना भवति?
(घ) कस्या: संग्रहेषु त्यक्तलज्ज: सुखी भवेत्?
(ङ) काभिः मैत्रीं कुर्वीत?
प्र०5 प्रश्नानामुत्तराणि लिखत-
(क) कुत्रः विस्मयः न कर्त्तव्यः?
(ख) पृथिव्यां त्रीणि रत्नानि कानि?
(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
उत्तर-
(क) बहुरत्ना वसुन्धरा इति विस्मय: न कर्त्तव्य:।
(ख) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति।
(ग) त्यक्तलज्ज: आहारे व्यवहारे च सुखी भवेत्।
प्र० 6 मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्नानि वसुन्धरा सत्येन सुखी अन्नम् वह्निः रविः पृथ्वी सङ्गतिम्
पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्
उत्तर-
पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
रवि वसुन्धरा सत्येन
सुखी पृथ्वी रत्नानि
वहि्नः सङ्गतिम् अन्नम्
प्र०7 अधोलिखितपदेषु धातव: के सन्ति?
पदम् धातुः
करोति ..............
पश्य ..............
भवेत् ..............
तिष्ठति ..............
उत्तर-
पदम् धातु:
कर्त्तव्य: कृ
पश्य दृश्
भवेत् भू
स्थित: स्था