Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता

1. उच्चारणं कुरुत –(उच्चारण करें)
कस्मिश्चित्
क्षुधातः
सिंहपदपद्धतिः
विचिन्त्य
एतच्छ्रुत्वा
समाह्वानम्
साध्विदम्
भयसन्त्रस्तमनसाम्
प्रतिध्वनिः

2. एकपदेन उत्तरं लिखत –
(एक पद में उत्तर लिखो)

(क) सिंहस्य नाम किम्?
उत्तराणि:खरनखरः।

(ख) गुहायाः स्वामी कः आसीत्?
उत्तराणि:दधिपुच्छः ।

(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः?
उत्तराणि:सूर्यास्तसमये।

(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते?
उत्तराणि:भयसन्त्रस्तमनसाम्।

(ङ) गुहा केन प्रतिध्वनिता?
उत्तराणि:सिंहगर्जनेन।

3. पूर्णवाक्येन उत्तरत
(पूर्ण वाक्य में उत्तर लिखो)

(क) खरनखरः कुत्र प्रतिवसति स्म?
उत्तराणि:खरनखरः कस्मिंश्चित् वने प्रतिवसति स्म।

(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?
उत्तराणि: महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्-‘नूनं एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति।
अतः अत्रैव निगूढो भूत्वा तिष्ठामि।’

(ग) शृगालः किम् अचिन्तयत्?
उत्तराणि:शृगालः अचिन्तयत्-‘अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्ति इति तर्कयामि।तत् किं करवाणि?’

(घ) शृगालः कुत्र पलायितः?
उत्तराणि: शृगालः दूरं पलायितः।

(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
उत्तराणि:गुहासमीपमागत्य शृगालः पश्यति यत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न बहिरागता।

(च) कः शोभते?
उत्तराणि:यः अनागतं कुरुते, सः शोभते।

4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)

(क) क्षुधातः सिंह कुत्रापि आहारं न प्राप्तवान्।
उत्तराणि:कीदृशः सिंह कुत्रापि आहारं न प्राप्तवान्?

(ख) दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्।
उत्तराणि:कः नाम शृगालः गुहायाः स्वामी आसीत्?

(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति।
उत्तराणि:एषा गुहा कस्य सदा आह्वानं करोति?

(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते।
उत्तराणि:भयसन्त्रस्तमनसां कीदृश्यः/ काः क्रियाः न प्रवर्तन्ते?

(ङ) आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति।
उत्तराणि:आह्वानेन शृगालः कुत्र प्रविश्य सिंहस्य भोज्यं भविष्यति?

5. घटनाक्रमानुसारं वाक्यानि लिखत –
(वाक्यों को घटना के क्रमानुसार लिखो)

(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत् ।
(ख) सिंहः एकां महतीं गुहाम् अपश्यत् ।
(ग) परिभ्रमन् सिंहः क्षुधा” जातः।
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत् ।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।
उत्तराणि:
1. परिभ्रमन् सिंहः क्षुधा” जातः। (ग)
2. सिंहः एकां महतीं गुहाम् अपश्यत्। (ख)
3. गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्। (क)
4. गुहायां कोऽपि अस्ति इति शृगालस्य विचारः। (छ)
5. दूरस्थः शृगालः रवं कर्तुमारब्धः। (घ)
6. सिंहः शृगालस्य आह्वानम्करोत्। (ङ)
7. दूरं पलायमानः शृगालः श्लोकमपठत्। (च)

6. यथानिर्देशमुत्तरत –
(निर्देशानुसार उत्तर दीजिए)

(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
उत्तराणि:1. एकाम्, 2. महतीम्।

(ख) तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
उत्तराणि:सिंहाय।

(ग) ‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तराणि:त्वम्

(घ) “सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
उत्तराणि:दृश्यते।

(ङ) वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तराणि:अत्र।

7. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत
(मञ्जूषा से अव्यय पदों को चुनकर रिक्त स्थान की पूर्ति कीजिए) |

कश्चन दूरे नीचैः यदा तदा यदि तर्हि परम् च सहसा |

एकस्मिन् वने ………… व्याधः जालं विस्तीर्य ……. स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः ………… आगच्छत्। ………… कपोताः तण्डुलान् अपश्यन् ………… तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् ……. वने कोऽपि मनुष्यः नास्ति। ……. कुतः तण्डुलानाम् सम्भवः? ………… राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले ….. निपतिताः। अतः उक्तम् .. विदधीत न क्रियाम्’।
उत्तराणि:
एकस्मिन् वने कश्चन व्याधः जालं विस्तीर्य दूरे स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः नीचैः आगच्छत्। यदा कपोताः तण्डुलान् अपश्यन् तदा तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति। तर्हि कुतः तण्डुलानाम् सम्भवः? परं राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले च निपतिताः। अतः उक्तम् ‘सहसा विदधीत न क्रियाम्’।

Leave a Comment

Your email address will not be published. Required fields are marked *