प्रश्न: 1.प्रश्नानाम् उत्तराणि एकपदेन लिखत- (प्रश्नों के उत्तर एक शब्द में लिखिए- Write the answers of questions in one word.)

(क) वृक्षे का प्रतिवसति स्म?
उत्तराणि:चटका

(ख) वृक्षस्य अधः कः आगतः?
उत्तराणि:गजः

(ग) गजः केन शाखाम् अत्रोटयत्?
उत्तराणि:
शुण्डेन

(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
उत्तराणिमक्षिकायाः

(ङ) मक्षिकायाः मित्रं कः आसीत् ?
उत्तराणि:मण्डूकः ।

प्रश्न: 2.रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित शब्दों के आधार पर प्रश्ननिर्माण कीजिए Frame questions based on the underlined words.)

(क) कालेन चटकायाः सन्ततिः जाता।
उत्तराणि:कालेन कस्याः सन्ततिः जाता?

(ख) चटकायाः नीडं भुवि अपतत् ।
उत्तराणि:चटकायाः किम् भुवि अपतत्?

(ग) गजस्य वधेनैव मम दुःखम् अपसरेत्।
उत्तराणि:कस्य वधेनैव मम दुःखम् अपसरेत् ?

(घ) काष्ठकूट: चञ्च्वा गजस्य नयने स्फोटयिष्यति ।
उत्तराणि:काष्ठकूट: कया गजस्य नयने स्फोटयिष्यति?

प्रश्न: 3.मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत। (मञ्जूषा से क्रिया-शब्दों को चुनकर रिक्त स्थान भरिए।) (Fill in the blanks by choosing suitable verb words from the box.)

 

करिष्यामि, गमिष्यति, अनयत्, पतिष्यति, स्फोटयिष्यति, त्रोटयति

(क) काष्ठकूटः चञ्च्वा गजस्य नयने ………. …… ।
उत्तराणि:स्फोटयिष्यति

(ख) मार्गे स्थितः अहमपि शब्दं
उत्तराणि:करिष्यामि

(ग) तृषार्तः गजः जलाशयं …………….
उत्तराणि:गमिष्यति

(घ) गजः गर्ते
उत्तराणि:पतिष्यति

(ङ) काष्ठकूटः तां मक्षिकायाः समीपम् ……………… |
उत्तराणि:अनयत्

(च) गजः शुण्डेन वृक्षशाखाः
उत्तराणि:त्रोटयति।

प्रश्न: 4.प्रश्नानाम् उत्तराणि एकवाक्येन लिखत।
(प्रश्नों के उत्तर एक वाक्य में लिखिए।)
(Write the answers of questions in one sentence.)

(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत् ?
उत्तराणि:चटकायाः विलापं श्रुत्वा काष्ठकूट: तां अपृच्छत्-“भद्रे, किमर्थं विलपसि?”

(ख) चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका किम् अवदत् ?
उत्तराणि:चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका अवदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति, शीघ्रं तमुपेत्य यथोचितं करिष्यामः।”

(ग) मेघनादः मक्षिकाम् किम् अवदत् ?
उत्तराणि:मेघनादः मक्षिकाम् अवदत्-“मक्षिके! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य स्थास्यति।”

(घ) चटका काष्ठकूटं किम् अवदत् ?
उत्तराणि:चटका काष्ठकूटम् अवदत्-“दुष्टेन एकेन गजेन मम सन्ततिः नाशिता।”

प्रश्न: 5.उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत- (उदाहरण के अनुसार रिक्त स्थान भरिए- Fill in the blanks according to the examples.)
NCERT Solutions for Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः 1
उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः 2

प्रश्न: 6.उदाहरणानुसारं ‘स्म’ शब्दं योजयित्वा भूतकालिकक्रियां रचयत- (उदाहरण के अनुसार ‘स्म’ शब्द जोड़कर भूतकाल की क्रिया बनाइए- Make past tense of the verb after adding ‘स्म’ according to the example.)

यथा-
अवसत् – वसति स्म।
अपठत् – ……………
अत्रोटयत् – ……………
अपतत् – ……………
अपृच्छत् – ……………
अवदत् – ……………
अनयत् – ……………
उत्तराणि:
अपठत् – पठति स्म।
अत्रोटयत् – त्रोटयति स्म।
अपतत् – पतति स्म।
अपृच्छत् – पृच्छति स्म।
अवदत् – वदति स्म।
अनयत् – नयति स्म।

प्रश्नः 7.कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (कोष्ठक से उचित शब्द चुनकर रिक्त स्थान भरिए- Fill in the blanks by choosing appropriate word from the bracket.)

(क) ………… बालिका मधुरं गायति । (एकम्, एका, एक:)
उत्तराणि:एका

(ख) ……. कृषकाः कृषिकर्माणि कुर्वन्ति । (चत्वारः, चतस्रः, चत्वारि)
उत्तराणि:चत्वारः

(ग) …………. पत्राणि सुन्दराणि सन्ति । (ते, ताः, तानि)
उत्तराणि:तानि

(घ) धेनवः दुग्धम्……. । (ददाति, ददति, ददन्ति)
उत्तराणि:ददति

(ङ) वयं संस्कृतम्………… । (अपठम्, अपठन् अपठाम)
उत्तराणि:अपठाम।

Scroll to Top