१. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तरं लिखन्तु।
(नीचे दिए गए प्रश्नों के उत्तर एक या दो पद में दीजिए।)
(क) पर्वतराजः कः ?
(ख) समुद्रः कस्याः चरणौ प्रक्षालयति ?
(ग) त्रिवर्णयुतः ध्वजः कुत्र विलसति ?
(घ) ध्वजस्थितः केशरवर्णः अस्मान् किं वक्तुं प्रेरयति ?
(ङ) कृषकबान्धवाः भारतभूमिं कैः सिञ्चन्ति ?
(च) केषां धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति ?
(छ) सूर्यः कं विना नित्यं सञ्चरति ?
उत्तर:
(क) हिमालयः
(ख) भारतमातुः
(ग) भारतमातुः हस्ते
(घ) जयतु सैनिकः
(च) वैज्ञानिकानाम्
(ङ) स्वेदबिन्दुभिः
(छ) विरामम्
२. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु ।
(नीचे दिए गए प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) पवित्राः नद्य: का : ?
(ख) विविधेभ्यः प्रदेशेभ्यः जनाः किमर्थम् आगच्छन्ति ?
(ग) धर्मचक्रं कं भावं बोधयति ?
(घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सञ्जाता?
(ङ) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम् ?
(च) अन्ते सर्वे किं गीतं गायन्ति ?
उत्तर:
(क) गङ्गा, यमुना, सरस्वती, ब्रह्मपुत्रः, गोदावरी, नर्मदा, कावेरी, कृष्णादयः पवित्राः नद्यः प्रवहन्ति ।
(ख) तीर्थक्षेत्राणां धूलिं ललाटे स्थापयितुं विविधेभ्यः प्रदेशेभ्यः असंख्याः जनाः आगच्छन्ति।
(ग) धर्मचक्रं ‘चलनीयं कर्तव्यपथे वै न विरम सततं चल’ इति भावं बोधयति ।
(घ) कृषकबान्धवानां परिश्रमेण एव भारतभूमिः हरितवर्णमयी, समृद्धा सस्यश्यामला च सञ्जाता।
(ङ) अणुशास्त्रम्, सङ्गणकशास्त्रम्, चिकित्साशास्त्रम्, अन्तरिक्षशास्त्रम्, आयुधशास्त्रम् इत्यादिषु विज्ञानस्य क्षेत्रेषु भारतीयैः वैज्ञानिकेः महत् यशः प्राप्तम् अस्ति ।
(च) वयं बालका भारतभक्ताः
वयं बालिका भारतभक्ताः।
वयं हि सर्वे भारतभक्ताः
पृथ्वीं स्वर्गं जेतुं शक्ताः ।।
३. रेखाङ्कितानि पदानि आश्रित्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु ।
(रेखांकित पदों के आधार पर उदाहरणानुसार प्रश्न निर्माण कीजिए ।)
यथा – अस्माकं वत्सला भारतमाता।
प्रश्नः – केषां वत्सला भारतमाता ?
(क) समुद्रः भारतमातुः चरणौ प्रक्षालयति।
(ख) जनाः तीर्थक्षेत्राणां धूलिं ललाटे स्थापयन्ति ।
(ग) वीराः भारतमातुः सर्वदा सेवां कृतवन्तः ।
(घ) ‘जयतु कृषक:’ इति वक्तुम् अस्मान् प्रेरयति ।
(ङ) नदी कष्टानि सहमाना प्रवहति ।
(च) वयं गौरववर्धनार्थं प्रयत्नं कुर्मः
उत्तर:
(क) समुद्र कस्याः चरणौ प्रक्षालयति?
(ख) जनाः तीर्थक्षेत्राणां धूलिं कुत्र / कस्मिन् स्थापयन्ति ?
(ग) के भारतमातुः सर्वदा सेवां कृतवन्तः ?
(घ) ‘जयतु कृषक:’ इति वक्तुं कान् प्रेरयति?
(ङ) का कष्टानि सहमाना प्रवहति?
(च) वयं गौरववर्धनार्थं किं कुर्मः?
४. अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारं रिक्तस्थानेषु रूपाणि लिखन्तु।
नीचे दिए गए शब्दों के उदाहरणानुसार रूप रिक्त स्थानों में लिखिए।)
उत्तर:

५. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषायां / प्रान्तीयभाषायाम् / आङ्ग्लभाषायां वा अनुवादं कुर्वन्तु ।
(नीचे दिए गए वाक्यों को पढ़कर मातृभाषा, प्रांतीय या अंग्रेज़ी भाषा में अनुवाद कीजिए ।)
(क) भारतभूमौ पवित्राः नद्यः प्रवहन्ति । – …………………………….
(ख) भारतस्य मस्तके हिमालय : मुकुटरूपेण शोभते । – …………………………….
(ग) भारतभूमौ श्रेष्ठाः पर्वताः विराजन्ते । – …………………………….
(घ) राष्ट्रध्वजे केशरः, श्वेतः, हरितः च वर्णाः सन्ति । – …………………………….
(ङ) वयं भारते जन्म प्राप्तवन्तः । – …………………………….
उत्तर:
(क) भारतभूमि में पवित्र नदियाँ बहती हैं।
(ख) भारत के मस्तक पर हिमालय मुकुटरूप में शोभता है।
(ग) भारतभूमि पर श्रेष्ठ पर्वत विराजमान हैं।
(घ) राष्ट्रध्वज में केसरिया, सफ़ेद एवं हरा रंग है।
(ङ) हम सभी ने भारत में जन्म प्राप्त किया।
६. अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखन्तु ।
उत्तर:

७. पाठे प्रयुक्तानि क्रियापदानि रिक्तस्थानेषु लिखन्तु ।
(पाठ में प्रयुक्त क्रियापदों को रिक्त स्थानों में लिखिए।)
उत्तर:

८. अधः प्रदत्तानां क्रियापदानां त्रिषु पुरुषेषु त्रिषु वचनेषु च लट्लकारस्य रूपाणि लिखन्तु ।
(नीचे दिए गए क्रियापदों के लट्लकार के रूप तीनों पुरुष व तीनों वचनों में लिखिए।)

उत्तर:
उत्तर: