प्रश्न 1.एकपदेन उत्तरं लिखत-

(क) वनराजः कैः दुरवस्था प्राप्तः?
उत्तराणि:तुच्छजीवैः

(ख) क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
उत्तराणि:काक:

(ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
उत्तराणि:आदर्शः

(घ) क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
उत्तराणि:गजः

(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
उत्तराणि:वराकान्

प्रश्न 2.अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत-

(क) नि:संशयं कः कृतान्तः मन्यते?
उत्तराणि:नि:संशयं सः एव कृतान्तः मन्यते यः पार्थिवरूपेण सदा परैः वित्रस्तान् पीड्यमानान् जीवान् न रक्षति।

(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
उत्तराणि:बक: वन्यजन्तूनां रक्षोपायान् शीतले जले बहुकालपर्यन्तं ध्यानमग्नः स्थितप्रज्ञः इव स्थित्वा चिन्तयितुं कथयति।

(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?
उत्तराणि:अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं वदति- “भो: भो:प्राणिनः। यूयम् सर्वे एव में सन्तति।। कथं मित्रः कलह कुर्वन्ति। वस्तुतः सर्वे वन्यजीवनः अन्योन्याश्रिताः”।

(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
उत्तराणि:यदि राजा सम्यक् न भवति तदा प्रजा अकर्णधारा जलधौ नौः इव इह विप्लवेत्।

(ङ) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
उत्तराणि:मयूरः पिच्छानुद्घाट्य नृत्यमुद्रायां स्थितः भवति।

(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
उत्तराणि:अन्ते सर्वे मिलित्वा उलूक राज्याभिषेकाय तत्पराः भवति।

(छ) अस्मिन्नटिके कति पात्राणि सन्ति?
उत्तराणि:अस्मिन्नाटके द्वादश पात्राणि सन्ति।

प्रश्न 3.रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

(क) सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
उत्तराणि:कस्याम्

(ख) गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
उत्तराणि:केन

(ग) वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
उत्तराणि:कस्मै किमर्थम्

(घ) मयूरस्य नृत्यं प्रकृतेः आराधना।
उत्तराणि:कस्याः

(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।
उत्तराणि:काम्

प्रश्न 4.शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।
उत्तराणि:न

(ख) का-का इति बकस्य ध्वनिः भवति।

उत्तराणि:न

(ग) काकपिकयोः वर्णः कृष्णः भवति।
उत्तराणि:आम्

(घ) गजः लघुकायः, निर्बलः च भवति।
उत्तराणि:न

(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
उत्तराणि:आम्

(च) अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
उत्तराणि:आम्

प्रश्न 5.मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

स्थितप्रज्ञः, यथासमयम्, मेध्यामध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः

(क) काकः _________ भवति।
उत्तराणि:मेध्यामध्यभक्षकः

(ख) _________ परभृत् अपि कथ्यते।
उत्तराणि:पिकः

(ग) बकः अविचल: _________ इव तिष्ठति।
उत्तराणि:स्थितिप्रज्ञः

(घ) मयूरः _________ इति नाम्नाऽपि ज्ञायते।
उत्तराणि:अहिभुक्

(ङ) उलूकः _________ पदनिर्लिप्त चासीत्।
उत्तराणि:आत्मश्लाघाहीनः

(च) सर्वेषामेव महत्त्वं विद्यते _________।
उत्तराणि:यथासमयम्

प्रश्न 6.वाच्यपरिवर्तनं कृत्वा लिखत-
उदाहरणम्-
क्रुद्धः सिंहः इतस्ततः धावति गर्जति च।
कुद्धेन सिंहेन इतस्ततः धाव्यते गय॑ते च।

(क) त्वया सत्यं कथितम्।
(ख) सिंहः सर्वजन्तून् पृच्छति।
(ग) काक: पिकस्य संततिं पालयति।
(घ) मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
(ङ) सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।
(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
उत्तराणि:
(क) त्वम् सत्यं कथितवान्।
(ख) सिंहेन सर्वजन्तवः पृच्छयन्ते।
(ग) काकेन पिकस्य संततिः पाल्यते।
(घ) मयूर विधाता एवं पक्षिराज वनराज वा कृतवान्।
(ङ) सर्वे खगाः कमपि खगम् एवं वनराजं कर्तुं इच्छन्ति स्म।
(च) सर्वैः मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नः क्रियताम्।

प्रश्न 7.समासविग्रहं समस्तपदं वा लिखतु-
(क) तुच्छजीवैः _________।
(ख) वृक्षोपरि _________।
(ग) पक्षिणां सम्राट् _________।
(घ) स्थिता प्रज्ञा यस्य सः _________।
(ङ) अपूर्वम् _________।
(च) व्याघ्रचित्रको _________।
उत्तराणि:
(क) तुच्छेः जीवै:/तुच्छः जीवः, तैः
(ख) वृक्षस्य उपरि
(ग) पक्षिसम्राट्
(घ) स्थिप्रज्ञः
(ङ) न पूर्वम्
(च) व्याघ्रः च चित्रक: च

 

Scroll to Top