प्रश्न 1.एकपदेन उत्तरं लिखत-
(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
उत्तराणि:कृषकः
(ख) वृषभः कुत्र पपात?
उत्तराणि:क्षेत्रे
(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
उत्तराणि:मातुः
(घ) कयोः एकः शरीरेण दुर्बलः आसीत्?
उत्तराणि:बलीवर्दयोः
(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?
उत्तराणि:प्रवर्ष:
प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कृषक: किं करोति स्म?
उत्तराणि:कृषकः क्षेत्रकर्षणं करोति स्म।
(ख) माता सुरभिः किमथम् अश्रूणि मुञ्चति स्म?
उत्तराणि:भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?
उत्तराणि:सुरभिः इन्द्रस्य इदम् उत्तरं ददाति-” भो वासव! पुत्रत्य दैन्यं दृष्ट्वा अहं रोदिमि।”
(घ) मातुः अधिका कृपा कस्मिन् भवति?
उत्तराणि:मातुः अधिका कृपा दीने पुत्रे भवति
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तराणि:इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं प्रवर्ष कृतवान्।
(च) जननी कीदृशी भवति?
उत्तराणि:जननी सर्वेषु अपत्येषु तुल्यवत्सला परं दीने पुत्र कृपाहदया भवति।
(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तराणि:अस्मिन् पाठे सुरभिसुराधिपइन्द्रयोः संवाद: विद्यते।
प्रश्न 3.‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत-
क स्तम्भ – ख स्तम्भ
(क) कृच्छ्रेण – (i) वृषभः
(ख) चक्षुभ्या॑म – (ii) वासवः
(ग) जवने – (iii) नेत्राभ्याम्
(घ) इन्द्रः – (iv) अचिरम्
(ङ) पुत्राः – (v) द्रुतगत्या
(च) शीघ्रम् – (vi) काठिन्येन
(छ) बलीवर्दः – (vii) सुताः
उत्तराणि:
क स्तम्भ – ख स्तम्भ
(क) कृच्छेण – (i) काठिन्येन
(ख) चक्षुाम् – (ii) नेत्राभ्याम्
(ग) जवने – (iii) द्रुतगत्या
(घ) इन्द्रः – (iv) वासवः
(ङ) पुत्राः – (v) सुताः
(च) शीघ्रम् – (vi) अचिरम्
(छ) बलीवर्दः – (vii) वृषभः
प्रश्न 4.स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) सः कृच्छ्रेण भारम् उद्वहति।
उत्तराणि:सः केन/कथम् भारम् उद्वहति?
(ख) सुराधिपः ताम् अपृच्छत्?
उत्तराणि:कः ताम् अपृच्छत्?
(ग) अयम् अन्येभ्यो दुर्बलः।
उत्तराणि:अयम् केभ्यः/ केभ्यो दुर्बलः?
(घ) धेनूनाम् माता सुरभिः आसीत्?
उत्तराणि:कासाम् माता सुरभिः आसीत्?
(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।
उत्तराणि:कति पुत्रेषु सत्स्वपि सा दु:खी आसीत्?
प्रश्न 5.रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
(क) कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।
उत्तराणि:कुर्वन्नासीत्
(ख) तयोरेक: वृषभः दुर्बलः आसीत्।
उत्तराणि:तयोः + एकः
(ग) तथापि वृषः न + उत्थितः।
उत्तराणि:नोत्थितः
(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
उत्तराणि:सत्सु + अपि
(ङ) तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
उत्तराणि:तथाप्यहमेतस्मिन्
(च) मे बहूनि + अपत्यानि सन्ति।
उत्तराणि:बहून्यपत्यानि
(छ) सर्वत्र जलोपप्लवः संजात:।
उत्तराणि:जल + उपलव:
प्रश्न 6.
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
(क) सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
उत्तराणि:धेनुमात्रे सुरभये (सुरभ्यै)।
(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
उत्तराणि:धेनुमात्रे सुरभये (सुरभ्यै)।
(ग) सः दीनः इति जानन् अपि कृषक: तं पीडयति।
उत्तराणि:दुर्बल बलीवय।
(घ) मे बहूनि अपत्यानि सन्ति।
उत्तराणि:धेनुमात्रे सुरभये (सुरभ्यै)।
(ङ) सः च ताम् एवम् असान्त्वयत्।
उत्तराणि:आखण्डलाय (इन्द्राय)।
(च) सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।
उत्तराणि:धेनुमात्रे सुरभये (सुरभ्यै)।
प्रश्न 7.‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-
क स्तम्भ – ख स्तम्भ
(क) कश्चित् – (i) वृषभम्
(ख) दुर्बलम् – (ii) कृपा
(ग) क्रुद्धः – (iii) कृषीवल:
(घ) सहस्राधिकेषु – (iv) आखण्डल:
(ङ) अभ्यधिका – (v) जननी
(च) विस्मितः – (vi) पुत्रेषु
(छ) तुल्यवत्सला – (vii) कृषक:
उत्तराणि:
क स्तम्भ – ख स्तम्भ
(क) कश्चित् – (i) कृषक:
(ख) दुर्बलम् – (ii) वृषभम्
(ग) क्रुद्धः – (iii) कृषीवल:
(घ) सहस्राधिकेषु – (iv) पुत्रेषु
(ङ) अभ्यधिका – (v) कृपा
(च) विस्मितः – (vi) आखण्डल:
(छ) तुल्यवत्सला – (vii) जननी