प्रश्न 1.एकपदेन उत्तरं लिखत-
(क) कुशलवौ कम् उपसृत्य प्रणमतः?
उत्तराणि:रामम्
(ख) तपोवनवासिनः कुशस्य मातरं कंन नाम्ना आह्वयन्ति?
उत्तराणि:देवीति
(ग) वयोऽनुरोधात् कः लालनीयः भवति?
उत्तराणि:शिशुः
(घ) केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुः
उत्तराणि:उपनयनोपदेशन
(ङ) कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?
उत्तराणि:तपोवने
प्रश्न 2.अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?
उत्तराणि:रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हृदयग्राही आसीत्।
(ख) रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?
उत्तराणि:रामः लवकुशौ अङ्कम् सिंहासनम् उपवेशयितुम् कथयति।
(ग) बालभावात् हिमकरः कुत्र विराजते?
उत्तराणि:बालभावात् हिमकरः पशुपति-मस्तके विराजते।
(घ) कुशलवयोः वंशस्य कर्ता क?
उत्तराणि:कुशलवयोः वंशस्य कर्ता सहनदीधितिः।
(ङ) कुशलवयोः मातरं वाल्मीकि: केन नाम्ना आह्वयति?
उत्तराणि:कुशलवयोः मातरं वाल्मीकिः वधूः नाम्ना आह्वयति।
प्रश्न 3.रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसार निर्दिशत-
उत्तराणि:
(क) ‘उपवेशयति’ इति पदस्य कारणेन द्वितीया विभक्तिः अस्ति।
(ख) “धिङ् (धिक्)’ अव्यय कारणेन द्वितीया विभक्तिः अस्ति।
(ग) ‘अध्यास्यताम्’ इति पदस्य कारणेन द्वितीया विभक्तिः अस्ति।
(घ) ‘अलम्’ अव्यय कारणेन तृतीया विभक्तिः अस्ति।
(ङ) ‘उपसृत्य’ इति पदस्य कारणेन द्वितीया विभक्तिः अस्ति।
प्रश्न 4.यथानिर्देशम् उत्तरत-
(क) ‘जानाम्यहं तस्य नामधेयम्’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तराणि:अहम्
(ख) ‘किं कुपिता एवं भणति उत प्रकृतिस्था’-अस्मात् वाक्यात् ‘हर्षिता’ इति पदस्य विपरीतार्थकपदं चित्वा लिखत।
उत्तराणि:कुपिता
(ग) विदूषकः (उपसृत्य) ‘आज्ञापयतु भवान्!’ अत्र ‘भवान्’ इति पद कस्मै प्रयुक्तम्?
उत्तराणि:रामाय
(घ) ‘तस्मादडू-व्यवहितम् अध्यास्याताम् सिंहासनम्’-अत्र क्रियापदं किम्?
उत्तराणि:अध्यास्याताम्
(ङ) ‘वयसस्तु न किञ्चिदन्तरम्’-अत्र ‘आयुषः’ इत्यर्थे किं पदं प्रयुक्तम्?
उत्तराणि:वयसः
प्रश्न 5.अधोलिखितानि वाक्यानि कः कं प्रति कथयति-
उत्तराणि:
प्रश्न 6(अ).मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-
उत्तराणि:
(क) शशिः, निशाकरः
(ख) इदानीम्, अधुना
(ग) शिष्टाचारः, सदाचारः
(घ) शिवः, चन्द्रशेखरः
(ङ) पुत्रः, सुतः
(च) सूर्य:, भानुः
प्रश्न 6(आ).विशेषण-विशेष्यपदानि योजयत-
उत्तराणि:
(1) उदात्तरम्य: – (क) समुदाचारः
(2) अतिदीर्घः – (घ) प्रवास:
(3) समरूपः – (ङ) कुटुम्बवृत्तान्तः
(4) हृदयगाही – (ख) स्पर्श:
(5) कुमारयोः – (ग) कुशलवयोः
प्रश्न 7(अ).अधोलिखितपदेषु सन्धि कुरुत-
(क) द्वयोः + अपि – _________
(ख) द्वौ + अपि – _________
(ग) कः + अत्र – _________
(घ) अनभिज्ञः + अहम् – _________
(ङ) इति + आत्मानम् – _________
उत्तराणि:
(क) द्वयोरपि
(ख) द्वावपि
(ग) कोऽत्र
(घ) अनभिज्ञोऽहम्
(ङ) इत्यात्मानम्
प्रश्न 7(आ).अधोलिखितपदेषु विच्छेदं कुरुत-
(क) अहमप्येतयोः – _________
(ख) वयोऽनुरोधात् – _________
(ग) समानाभिजनौ – _________
(घ) खल्वेतत् – _________
उत्तराणि:
(क) अहम् + अपि + एतयो:
(ख) वयः + अनुरोधात्
(ग) समान + अभिजनौ
(घ) खलु + एतत्