Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

प्रश्न 1.एकपदेन उत्तरं लिखत-

(क) क: चन्दनदासं द्रष्टुम् इच्छति?
उत्तराणि:चाणक्यः

(ख) चन्दनदासस्य वणिज्या कीदृशी आसीत्?
उत्तराणि:मणिकारम्

(ग) किं दोषम् उत्पादयति?
उत्तराणि:ततस्तत्प्रच्छादनम्

(घ) चाणक्यः कं द्रष्टुम् इच्छति?
उत्तराणि:चन्दनदासम्

(ङ) कः शङ्कनीयः भवति?
उत्तराणि:चन्दनदासम्

प्रश्न 2.अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
(ख) तृणानां केन सह विरोधः अस्ति?
(ग) पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?
(घ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
(ङ) कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?
उत्तराणि:
(क) चन्दनदासः अमात्यराक्षसस्य गृहजनं स्वगृहे रक्षतिः।
(ख) तृणानाम् अग्निना सह विरोधः अस्ति।
(ग) पाठेऽस्मिन् चन्दनदासस्य तुलना शिविना सह कृता।
(घ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं राजानः इच्छन्ति।
(ङ) आर्यस्य (चाणक्यस्य) प्रसादेन चन्दनदासस्य वाणिज्या-अखण्डिता।

प्रश्न 3.स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) शिविना विना इदं दुष्कर कार्य कः कुर्यात्।
उत्तराणि:केन

(ख) प्राणेभ्योऽपि प्रियः सुहृत्।
उत्तराणि:कः

(ग) आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
उत्तराणि:कस्य

(घ) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
उत्तराणि:के

(ङ) तृणानाम् अग्निना सह विरोधो भवति।
उत्तराणि:केषाम्

प्रश्न 4.यथानिर्देशमुत्तरत-

(क) ‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?
उत्तराणि:
अखण्डिता

(ख) पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।
उत्तराणि:इदानीम्

(ग) ‘आर्य! किं में भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपद कस्मै प्रयुक्तम्?
उत्तराणि:चाणक्याय

(घ) ‘प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तराणि:राजानः

(ङ) ‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?
उत्तराणि:समये

प्रश्न 5.निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

(क) यथा- कः + अपि – कोऽपि
प्राणेभ्य: + अपि – ___________
___________ + अस्मि – सज्जोऽस्मि
आत्मनः + ___________ – आत्मनोऽधिकारसदृशम्

(ख) यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – ___________
कदाचित् + च – ___________
उत्तराणि:
(क) यथा- क: + अपि – कोऽपि
प्राणेभ्यः + अपि – प्राणेभ्योऽपि
सज्जः + अस्मि – सज्जोऽस्मि
आत्मनः + अधिकारसदृशम् – आत्मनोऽधिकारसदृशम्

(ख) यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – शरच्चन्द्रः
कदाचित् + च – कदाचिच्च

प्रश्न 6.कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

(क) ___________ विना इदं दुष्करं कः कुर्यात्। (चन्दनदासस्य / चन्दनदासेन)
(ख) ___________ इदं वृत्तान्तं निवेदयामि। (गुरवे / गुरोः)
(ग) आर्यस्य ___________ अखण्डिता मे वणिज्या। (प्रसादात् / प्रसादेन)
(घ) अलम् ___________। (कलहेन / कलहात्)
(ङ) वीरः ___________ बालं रक्षति। (सिंहेन / सिंहात्)
(च) ___________ भीतः मम भ्राता सोपानात् अपतत्। (कुक्कुरेण / कुक्कुरात्)
(छ) छात्रः ___________ प्रश्नं पृच्छति। (आचार्यम् / आचार्येण)
उत्तराणि:
(क) चन्दनदासेन
(ख) गुरवे
(ग) प्रसादेन
(घ) कलहेन
(ङ) सिंहात्
(च) कुक्कुरात्
(छ) आचार्यम्

प्रश्न 7.अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

असत्यम्, पश्चात्, गुणः, आदरः, तदानीम्, तत्र

(क) अनादरः – ___________
(ख) दोषः – ___________
(ग) पूर्वम् – ___________
(घ) सत्यम् – ___________
(ङ) इदानीम् – ___________
(च) अत्र – ___________
उत्तराणि:
(क) आदरः
(ख) गुणः
(ग) पश्चात्
(घ) असत्यम्
(ङ) तदानीम्
(च) तत्र

प्रश्न 8.उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
(क) उपसृत्य – ___________
(ख) प्रविश्य – ___________
(ग) द्रष्टुम् – ___________
(घ) इदानीम् – ___________
(ङ) अत्र – ___________
उत्तराणि:
(क) अहम् आचार्यम् उपसृत्य पठामि।
(ख) सः कक्षाम् प्रविश्य अवदत्।
(ग) बाल: मातरं द्रष्टुम् इच्छति।
(घ) इदानीम् त्वं कुतः आगच्छसि?
(ङ) सा अत्र आगृत्य वदति।

 

Leave a Comment

Your email address will not be published. Required fields are marked *