परोपकारी
नारायणकूटं नाम ग्रामः। तत्र रमणः नाम परोपकारी वसति स्म। एकदा महत्या वृष्ट्या चण्डमारुतेन च वृक्षाः पतिताः गृहाणि शिथिलानि जातानि। बहवः निर्गतिकाः अभवन्। रमणः गृहं गृहम् अटित्वा धनं सङ्गृहीतवान्। निर्गतिकानां कृते तेन धनेन कुटीरान् निर्माप्य दत्तवान्। एतत् पुण्यकार्यार्थं ग्रामीणाः सर्वे धनं दत्तवन्तः। किन्तु धनगुप्तः नाम धनिकः एकं नाणकम् अपि न दत्तवान्। अधिकदानं ये कृतवन्तः तेषां नामानि […]