स्वामीभक्तः शुभ्रकः(अश्वः)

स्वामीभक्तः शुभ्रकः(अश्वः) च यवनाक्रमणकारिणः कुतुबुद्दीनस्य मृत्युः।।

यवनाक्रमणकारी कुतुबुद्दीनः अजमेरस्य विद्रोहात् परं राजस्थानस्य अनेकेषु स्थानेषु नरसंहारं कारितवान् आसीत्।

एवं परिस्थितौ तस्य कठोरविरोधः कृतः आसीत् उदयपुरस्य महाराजेन। परन्तु कुतुबुद्दीनेन सह युद्धे तस्य पराजयः अभवत्।

कुतुबुद्दीनः छलेन राजकुमारं कर्णसिंहं बद्ध्वा तस्य च शुभ्रकः इति नाम्नः अश्वम् अपि लाहोरं नीत्वा तं कारागारे स्थापितवान् आसीत्।

अश्वः शुभ्रकः महान् प्रतापी स्वामीभक्तः च आसीत्।

एकदा सः राजकुमारः कर्णसिंहः कारागारात् पलायितुं प्रचेष्टां कृतवान् परन्तु कुतुबुद्दीनस्य सैनिकैः सः पुनः गृहीतः।

तदा कुतुबुद्दीनः कुपितः सन् तस्य सैनिकान् आदिष्टवान् आसीत् यत् तं राजकुमारं शिरच्छेदं कृत्वा घ्नन्तु इति।

तं राजकुमारं दण्डयितुं सः कुतुबुद्दीनः स्वयं राजकुमारस्य अश्वं शुभ्रकम् आरुह्य “जन्नतबाग” इति नाम्नः एकम् उद्यानं प्राप्तवान्।

सैनिकाः च राजकुमारं तत्र नीतवन्तः आसन्।

सः अश्वः यदा तस्य स्वामिनं दृष्टवान् तदा सः विचलितः अभवत्।

यदा राजकुमारं दण्डयितुं तं बन्धनात् सैनिकाः मुक्तं कारितवन्तः तत्क्षणमेव सः अश्वः एकेन कूर्दनेन कुतुबुद्दीनं भूमौ पातयित्वा तस्य पादैः आघातं कृत्वा तं अहन्।

तत्क्षणम् एव सः राजकुमारः तस्य अश्वम् आरुह्य प्राणान् रक्षितुं ततः पलायितवान् आसीत्। स्वामीभक्तः सः शुभ्रकः अपि ततः वेगेन राजकुमारं नीत्वा लाहोरतः अवित्रतः धावित्वा उदयपुरस्य राजास्थानम् आगत्य स्थितवान् आसीत्।

दिनद्वयं यावत् सः अश्वः धावनं कृत्वा ततः आगतवान् आसीत्, मध्ये कुत्रापि सः विश्रामं न कृतवान् किमपि च न खादितवान् आसीत्।

राजप्रासादम् आगत्य सः राजकुमारः अश्वात् अवतीर्य यदा प्रेम्णा तस्य हस्तेन अश्वस्य शरीरस्य मर्दनं कृतवान् आसीत् तदा अश्वः भूमौ पतितवान्।

सः अश्वः मृतः अभवत्। मृतम् अश्वं दृष्ट्वा सः राजकुमारः भृशं रोदनं कृतवान् आसीत्।

Leave a Comment

Your email address will not be published. Required fields are marked *