प्र० 1 एकपदेन उत्तरत-


(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?

(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?

(ग) रमाबाई केन सह विवाहम् अकरोत्?

(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?

(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?

उत्तर-

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां पंडिता रमाबाई विभूषिता।

(ख) रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

(ग) रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।

(घ) नारीणां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती।

(ङ) रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्।

प्र० 2 रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-


 (क) रमायाः पिता समाजस्य प्रतारणाम् असहत।

(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।

(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) स्त्रियः शिक्षां लभन्ते स्म।

उत्तर

(क) कस्या: पिता समाजस्य प्रतारणाम्‌ असहत?

(ख) कस्य मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्‌?

(ग) रमाबाई कुत्र ‘शारदा-सदनम्‌’ अस्थापयत्‌?

(घ) 1922 तमे ख्रिष्टाब्दे कस्या: निधनम्‌ अभवत्‌?

(ङ) कस्मै शिक्षां लभन्ते स्म?

प्र० 3 प्रश्नानामुत्तराणि लिखत-


(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?

(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?

(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?

(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?

उत्तर-

(क) रमाबाई स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।

(ख) निःसहायाः स्त्रियः आश्रमे मुद्रण-टंकण-काष्ठकलादीनाञ्च लभन्ते स्म।

(ग) समाजसेवायाः अतिरिक्तं लेखनक्षेत्रे अपि रमाबाई-महोदयायाः योगदानम् अस्ति।

(घ) ‘स्त्रीधर्मनीति’, ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते।
 

प्र० 4 अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानिमूलशब्दःलिङ्गम्विभक्तिःवचनम्
यथा- वेदानाम्वेदपुँल्लिङ्गम्षष्ठीबहुवचनम्
पिता…………….………………………………………
शिक्षायै……………………………………………………
कन्याः……………………………………………………
नारीणाम्……………………………………………………
मनोरमया……………………………………………………
उत्तर-
पदानिमूलशब्द:लिङ्गम्विभक्ति:वचनम्‌
यथा-वेदानाम्‌वेदपुँल्लिङ्गम्षष्ठीबहुवचनम्‌
पितापितृपुँल्लिङ्गम्प्रथमाएकवचनम्
शिक्षायैशिक्षास्त्रीलिङ्गम्चतुर्थीएकवचनम्
कन्या:कन्यास्त्रीलिङ्गम्प्रथमाबहुवचनम्‌
नारीणाम्नारीस्त्रीलिङ्गम्षष्ठीबहुवचनम्‌
मनोरमयामनोरमास्त्रीलिङ्गम्तृतीयाएकवचनम्
प्र० 5 अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-
 
 धातुःलकार:पुरुष:वचनम्
यथा- आसीत्अस्लङ्प्रथमपुरुषःएकवचनम्
कुर्वन्ति…………….………………………………………
आगच्छत्……………………………………………………
निवसन्ति……………………………………………………
गमिष्यति……………………………………………………
अकरोत्……………………………………………………
उत्तर-
 धातु:लकार:पुरुष:वचनम्‌
यथा-आसीत्‌अस्‌लङ्प्रथमपुरुष:एकवचनम्‌
कुर्वन्ति‘कृ’लट्प्रथमपुरुष:बहुवचनम्‌
आगच्छत्‌‘गम्’लङ्प्रथमपुरुष:एकवचनम्‌
निवसन्ति‘नि’ उपसर्ग ‘वस’ धातुलट्प्रथमपुरुष:बहुवचनम्‌
गमिष्यति‘गम्’लृटप्रथमपुरुष:एकवचनम्‌
अकरोत्‌‘कृ’लङ्प्रथमपुरुष:एकवचनम्‌
प्र० 6 अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-


(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

उत्तर-

(क) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ख) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

(ग) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(घ) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

Scroll to Top