अभ्यास पाठ-2

प्र०1 उच्चारणं कुरुत।
 

फुल्लोत्पलम्अवलम्ब्यपक्त्वा
कम्बुग्रीवःआवाभ्याम्भक्षयिष्यामि
उक्तवान्ह्रदम्सुहृदाम्
भवद्भ्याम्उड्डीयतेभ्रष्टः

उत्तर-

विद्यार्थी इसका उच्चारण करें |

प्र० 2 एकपदेन उत्तरत-


(क) कूर्मस्य किं नाम आसीत्?

(ख) सरस्तीरे के आगच्छन्?

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?

(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?

उत्तर-

(क) कूर्मस्य कम्बुग्रीवः नाम आसीत्

(ख) सरस्तीरे धीवराः आगच्छन्।

(ग) कूर्मः आकाशमार्गेण मार्गेण अन्यत्र गन्तुम् इच्छति।

(घ) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।

प्र०3 अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

 कः कथयतिकं प्रति कथयति
यथा- प्रातः यद् उचितं तत्कर्त्तव्यम्हंसौकूर्मं प्रति
(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।…………….…………….
(ख) अत्र कः उपायः?…………….…………….
(ग) अहम् उत्तरं न दास्यामि।…………….…………….
(घ) यूयं भस्म खादत।…………….…………….
उत्तर-
  कथयतिकं प्रति कथयति
यथाप्रात: यद् उचितं तत्कर्त्तव्यम्‌।हंसौकूर्मं प्रति
(क)अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।कूर्मं:हंसौ प्रति
(ख)अत्र क: उपाय:?हंसौकूर्मंम् प्रति
(ग)अहम्‌ उत्तरं न दास्यामि।कूर्मं:हंसौ प्रति
(घ)यूयं भस्म खादत।कूर्मं:गोपालाकान् प्रति

प्र० 4 मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-


 

अभिनन्दतिभक्षयिष्यामःइच्छामिवदिष्यामिउड्डीयतेप्रतिवसितस्म

(क) हंसाभ्यां सह कूर्मोऽपि ……………….. ।

(ख) अहं किञ्चिदपि न ……………….. ।

(ग) यः हितकामानां सुहृदां वाक्यं न ……………….. ।

(घ) एकः कूर्मः अपि तत्रैव ……………….. ।

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् ……………….. ।

(च) वयं गृहं नीत्वा कूर्मं ……………….. ।

उत्तर-

(क) हंसाभ्यां सह कूर्मोऽपि उड्डीयते।

(ख) अहं किञ्चिदपि न वदिष्यामि।

(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति।

(घ) एकः कूर्मः अपि तत्रैव प्रतिवसित स्म।

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।

(च) वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः।

प्र० 5 पूर्णवाक्येन उत्तरत-


(क) कच्छपः कुत्र गन्तुम् इच्छति?

(ख) कच्छपः कम् उपायं वदति?

(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः किम् अवदन्?

(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?

उत्तर-

(क) कच्छप: हंसाभ्यां सह आकाशमार्गेण अन्यत्र स्थाने गन्तुम् इच्छति।

(ख) कच्छप: उपायं वदति “युवां काष्ठदण्डम् एकं चञ्चवा धारयतम्। अहं काष्ठदण्डमध्ये अवलंम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।”

(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालका: अवदन्‌ “हं हो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।”

(घ) कूर्म: मित्रयो: वचनं विस्मृत्य अवदत्‌ “यूयं भस्म खादत”।

प्र० 6 घटनाक्रमानुसारं वाक्यानि लिखत-


(क) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्।

(ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः।

(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

(घ) केचित् धीवराः सरस्तीरे आगच्छन्।

(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।

(छ) कूर्मः आकाशात् पतितः पौरै: मारितश्च।

(ज) ‘वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।

उत्तर-

(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।(घ) केचित् धीवराः सरस्तीरे आगच्छन्।

(ज) ’वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।(च) लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।

(ख) पौराः अकथयन् – वयं पतितं कूर्मं खादिष्यामः।(छ). कूर्मः आकाशात् पतितः पोरैः मारितश्च।

प्र० 7 मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
 
जलाशयम्अचिन्तयत्वृद्धःदुःखिताःकोटरे
वृक्षस्यसर्पःआदायसमीपे 

एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य ……………………………… एकः

सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ ……………………………. काकानां शिशून् खादति स्म।

काकाः …………………….. आसन्। तेषु एकः …………………. काकः उपायम् …………………….।

वृक्षस्य ………………… जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ………………….. आगच्छति

स्म। शिलायां स्थितं तस्याः आभरणम् ………………………….. एकः काकः वृक्षस्य उपरि अस्थापयत्।

राजसेवकाः काकम् अनुसृत्य …………………………. समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।

अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।

उत्तर-

एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य कोटरे एकः

सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म।

काकाः दुःखिताः आसन्। तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्

वृक्षस्य समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं जलाशयम् आगच्छति

स्म। शिलायां स्थितं तस्याः आभरणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्।

राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।

अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।

Leave a Comment

Your email address will not be published. Required fields are marked *